‘निर्झरा’
प्रथमो भागः
कक्षा-11
प्रथम: पाठ:
उत्तराखण्डस्य चत्वारि धामानि
सम्पूर्णपाठाधारिताः अभ्यासप्रश्नाः
प्र.1- एकपदेन उत्तरत-
(क) यमुनोत्री मन्दिरं कस्मिन् जनपदे अस्ति ?
उत्तरम्-उत्तरकाशी जनपदे।
(ख) भागीरथ्याः उद्गमस्थलं कुत्र वर्तते ?
उत्तरम्-गौमुखनामक-स्थानम्।
(ग) चमोली-जनपदे किं धाम अस्ति?
उत्तरम्-श्रीबदरीनाथधाम।
(घ) केदारनाथः कस्याः नद्याः तटे विद्यते ?
उत्तरम्-मन्दाकिन्या:।
(ङ) गङ्गोत्री-मन्दिरस्य कपाटं कस्मिन् दिने उद्घाट्यते ?
उत्तरम्-अक्षयतृतीयाया: ।
(च) भारतस्य चतुर्षु धामसु किम् उत्तराखण्डे स्थितमस्ति ?
उत्तरम्-बदरीनाथ-धाममन्दिरम् ।
(छ) बदरीनाथः कस्याः नद्याः तटे विद्यते ?
उत्तरम्-अलकनन्दाया:।
प्र.2-पूर्णवाक्येन उत्तरत-
(क) उत्तराखण्डस्य चतुर्णां धामानां नामानि लिखत ।
उत्तरम्- यमुनोत्री-गंगोत्री- केदारनाथ- बदरीनाथश्च।
(ख) यमुना कस्य पुत्री कस्य च भगिनी अस्ति ?
उत्तरम्- यमुना सूर्यस्य पुत्री यमराजस्य भगिनी च अस्ति।
(ग) केदारनाथमन्दिरस्य निर्माणं केन कृतम् ?
उत्तरम्- केदारनाथमन्दिरस्य निर्माणं पाण्डवराज्ञा जन्मेजयेन कृतम्।
(घ) बदरीनाथधाम्नः नाम बदरीनाथः कथम् अभवत् ?
उत्तरम्-अत्रैव लक्ष्मी बदरीवृक्षस्य रूपं धृत्वा चिरकालं तप: कृतवती अत एव बदरीनाथधाम्न: नाम बदरीनाथ: अभवत्।
(ङ) उत्तराखण्डस्य चतुर्णां धामानां यात्रायाः क्रमः कः अस्ति ?
उत्तरम्- यमुनोत्री-गंगोत्री-केदारनाथ-बदरीनाथ इति।
प्र.3-निर्देशानुसारम् उत्तरत-
(क) ‘सुखदं वातावरणं’ अत्र विशेषणपदं किम् ?
उत्तरम्- सुखदं ।
(ख)’यमुनादेव्याः’ इति पदे का विभक्तिः ?
उत्तरम्- षष्ठी ।
(ग) ‘शान्तम्’ अस्य विलोमपदं किम् ?
उत्तरम्-अशान्तम्।
(घ) ‘इत्यस्य’ इति पदस्य विच्छेदं किम् ?
उत्तरम्- इति+अस्य ।
(ङ) ‘प्रमुदिताः’ इत्यत्र कः उपसर्गः प्रयुक्तः ?
उत्तरम्- ‘प्र’ उपसर्गः।
- मेलनं कुरुत-
अ ब
(क) गंगोत्री चमोली
(ख) केदारनाथः उत्तरकाशी
(ग) बदरीनाथ: रूद्रप्रयागः
(घ) सूर्यकुण्डम् बदरीनाथ:
(ड) व्यासगुहा गंगोत्री
उत्तरम्-
(क) गंगोत्री उत्तरकाशी
(ख) केदारनाथः रूद्रप्रयागः
(ग) बदरीनाथ: चमोली
(घ) सर्वकुण्डम् गंगोत्री
(ड) व्यासगुहा बदरीनाथः
- रिक्तस्थानानि पूरयत-
(क) अस्मिन् स्थले अनेके जलप्रपाता: दृष्टिगोचराः भवन्ति ।
(ख) यमुना सूर्यस्य पुत्री यमराजस्य च भगिनी अस्ति।
(ग) मन्दाकिन्याः नद्याः वामभागे केदारनाथमन्दिरम् अस्ति।
(घ) अत्रैव लक्ष्मी: बदरीवृक्षस्य रूपं धृत्वा चिरकालं तप: कृतवती।
(ङ) बदरीविशाले बदरीशपंचायतन–पूजाया: विधानम् अस्ति ।
- प्रकृतिप्रत्ययविभागं कुरुत-
उपसर्गः प्रकृति: प्रत्ययः
(क) गतवान् गम् क्तवतु
(ख) गतवन्तः गम् क्तवतु
(ग) प्रसृतः प्र सृ क्त:
(घ) दृष्ट्वा दृश् क्त्वा
(ङ) आरभ्य आ रभ् ल्यप्