‘संस्कृत-सम्बोधिनी’
द्वितीयो भागः
कक्षा-10th
प्रथमः पाठः
हृदयपरिवर्तनम्
सम्पूर्णपाठाधारिताः अभ्यास-प्रश्नाः
- एकपदेन उत्तरत-
(क) हिमालस्य उपत्यकायां कः ग्रामः अस्ति?
उत्तरम्- लीलम-नामकः।
(ख) कस्य रुचिः पठने नास्ति ?
उत्तरम्- राजेशस्य ।
(ग) व्याधवृत्त्या कस्य भरणपोषणं भवति ?
उत्तरम्- कुटुम्बस्य ।
(घ) कस्मात् एकः मुनिरागच्छत्?
उत्तरम्- हिमालयात् ।
(ङ) कस्याः त्यागपूर्वकम् उपभोगः भवेत्?
उत्तरम्- प्रकृतेः ।
(च) राजेशः कस्य वधाय अनुधावति स्म ?
उत्तरम्- मृगस्य ।
(छ) एकः व्याघ्रः कुत्र आगच्छत् ?
उत्तरम्- गर्तमुखे ।
(ज) का सर्वत्र दृश्यते ?
उत्तरम्- हरीतिमा ।
- पूर्णवाक्येन उत्तरत –
(क) राजेश: केन सह निवसति स्म ?
उत्तरम्- राजेशः स्वपरिवारेण सह निवसति स्म ।
(ख) ग्रामवासिनः शिक्षकाः च राजेशं कुत्र गन्तुं कथयन्ति ?
उत्तरम्- ग्रामवासिनः शिक्षकाः च राजेशं विद्यालयं गन्तुं कथयन्ति।
(ग) केन दृढ-निश्चयः कृतः ?
उत्तरम्-राजेशेन।
(घ) सः कुतः बहिर्निष्क्रमणाय प्रयत्नशीलः आसीत् ?
उत्तरम्- सः गर्तात् बहिर्निष्क्रमणाय प्रयत्नशील: आसीत्।
(ङ) के अन्योन्याश्रिताः सन्ति ?
उत्तरम्- वन्यजीवाः अन्योन्याश्रिताः सन्ति।
(च) पशुमारणाय गर्तः केन निर्मितः ?
उत्तरम्- पशुमारणाय गर्त: राजेशेन निर्मितः।
(छ) अधुना ग्रामे सर्वे जनाः कस्मिन् संलग्नाः सन्ति?
उत्तरम्- अधुना ग्रामे सर्वे जनाः परिश्रमे संलग्नाः सन्ति।
(ज) कां कदापि न आचरिष्यामि ?
उत्तरम्-व्याधवृत्तिं कदापि न आचरिष्यामि।
- रिक्तस्थानानि पूरयत –
(क) राजेशः षोडश वर्षदेशीयः आसीत्। (षोडश/अष्टादश)
(ख) एकदा ग्रामे हिमालयात् एकः मुनिः आगच्छत्।(आपणात् / हिमालयात्)
(ग) प्रकृतेः त्यागपूर्वकं उपभोगः भवेत्। (उपभोगः/दुर्भोगः)
(घ) राजेश: गर्ते अपतत् । (गर्ते/ क्षेत्रे)
(ड़) मानुषीं वाणीं श्रुत्वा स विस्मितो जातः। (राक्षसीं/मानुषीं)
- निर्देशानुसारम् उत्तरत –
(क) ‘सहसैव’ इत्यत्र सन्धिविच्छेदं कुरुत।
उत्तरम्- सहसा + एव ।
(ख) ‘राजेशः प्रतिदिनं विद्यालयं न गच्छति स्म’ अस्मिन् वाक्ये कर्तृपदं किम् ?
उत्तरम्- राजेशः ।
(ग) ‘सः जनान् बहुविधम् अवबोधयति’ अस्मिन् वाक्ये उपसर्गपदं चिनुत।
उत्तरम्- ‘अव’ उपसर्ग: ।
(घ) ‘भोः ! मुञ्च मां, मुञ्च माम्’ एतत् वाक्यं कः कं प्रति उक्तवान् ?
उत्तरम्- राजेशः व्याघ्रं प्रति उक्तवान्।
(ङ) ‘प्रतिदिनम्’ इत्यत्र समास-विग्रहं कुरुत।
उत्तरम्- दिनं दिनं प्रति ।
- रेखाङ्कितं पदम् आधृत्य प्रश्ननिर्माणं कुरुत-
(क)व्याघ्रः गर्तमुखे आगच्छत् ।
उत्तरम्- कः गर्तमुखे आगच्छत्?
(ख) मानुषीं वाणीं श्रुत्वा स: विस्मितो जात:।
उत्तरम्-कां वाणीं श्रुत्वा सः विस्मितो जातः?
(ग) व्याघ्र: तं मृगम् अन्वगच्छत्।
उत्तरम्- व्याघ्रः कं मृगम् अन्वगच्छत्?
(घ) ग्रामे सर्वे जना: परिश्रमे संलग्नाः सन्ति।
उत्तरम्- कुत्र सर्वे जनाः परिश्रमे संलग्नाः सन्ति?
(ड़) तस्य रुचि: पठने नास्ति।
उत्तरम्- तस्य रुचिः कुत्र नास्ति ?
- उचितैः पदैः सह मेलनं कुरुत-
(क)हिमालयस्य पूर्वकम्
(ख)कुटुम्बी उपत्यकायाम्
(ग) त्यागः मर्मरध्वनिः
(घ)शुष्कपत्राणां जना:
उत्तरम्-
(क)हिमालयस्य उपत्यकायाम्
(ख)कुटुम्बी जना:
(ग) त्याग पूर्वकम्
(घ)शुष्कपत्राणां मर्मरध्वनिः
- सन्धिविच्छेदं कुरुत –
(क) प्रत्यहं = प्रति + अहं
(ख)प्रोत्साहितवन्तः = प्र + उत्साहितवन्तः
(ग)मुनिरागच्छत् = मुनिः + आगच्छत्
(घ) सोऽपि = सः + अपि
(ङ)रक्षणेनैव = रक्षणेन + एव
(च) तदैव = तदा + एव
(छ)एवोक्तम् = एव + उक्तम्
(ज) नोचितम् = न + उचितम्
(झ) तेनैव = तेन+एव
(ञ) प्राणरक्षैव = प्राणरक्षा + एव
8.अधोलिखितैः क्रियापदैः संस्कृतवाक्यानि रचयत-
धारयन्ति, अपतत्, करिष्यामि, धृतवान्
उत्तरम्-
(क) जनाः वस्त्राणि धारयन्ति।
(ख) सः गर्ते अपतत्।
(ग) अहं पठने परिश्रमं करिष्यामि।
(घ) सः व्याघ्रस्य रूपं धृतवान्।