संस्कृत-पद्य-साहित्ये नूतनप्रवृत्तयः

 संस्कृत-पद्य-साहित्ये नूतनप्रवृत्तयः

     संस्कृतभाषायां साहित्य-लेखनस्येयमजस्र-परम्परा प्राचीकालादेव निर्बाधतया प्रवर्तमाना वर्तते। भाषायामस्यां विविध-प्रकारकं साहित्यं लिखितं वर्तते। साहित्यं समाजस्य दर्पणो भवति। अर्थात् साहित्ये समाजस्य प्रभावो निश्चयरूपेण एव दृश्यते। अत एव समयानुगुणं साहित्ये नूतनाः अभिव्यक्तयो भवन्ति, तथा साहित्यं परस्परं भिन्नतामाप्नोति। यथा- कालिदासस्य पूर्ववर्ति-साहित्यिक-धारा तथा उत्तरवर्ति-साहित्यिक-धारा परस्परं विलक्षणा वर्तते। अत एव गच्छताकालेन साहित्ये जायमानं परिवर्तनं स्वाभाविकम् इति। एवम्प्रकारेण यदि आधुनिक-साहित्यिक-धारायां यदि वैलक्षण्यं दृष्टिपथमायाति तर्हि नास्ति किमप्यस्वाभाविकम्। यतो हि साम्प्रतिके कालेऽस्मिन् प्रौद्योगिकी-भूमण्डलीकरण-भोगवादितायाः युगे मानवस्य जीवनशैली सामाजिक-स्थितिश्च निरन्तरं परिवर्तमाने स्तः। वैदेशिक-साहित्यप्रभावकारणात् क्षेत्रीय-साहित्य-प्रभावकारणाच्च काव्यशैलीदृष्ट्या विषयदृष्ट्या च विभिन्नानां वैचित्र्यानां संस्कृत-साहित्यस्य रचनासु समावेशो जायते। तानि वैचित्र्यान्येव वयं संस्कृत-साहित्यस्य “नूतन-प्रवृत्तयः” इति नाम्ना सम्बोधयितुं शक्नुमः।

                    संस्कृतक्षेत्रे आरम्भत एव संस्कृतस्य सुप्रसिद्धैः कविभिः व्यास-भास-कालिदास-बाणभट्ट-इत्यादिभिस्सह लेखनप्रवृत्तिषु समकक्षतां प्राप्तुं ‘अभिनवव्यासः’ ‘अभिनव-भासः’ ‘अभिनवकालिदासः’ इत्यादिभिः उपाधिभिः स्वां प्रतिष्ठापयितुं परम्परा आसीत्। किन्तु उत्तरोत्तरमाधुनिक-संस्कृत-रचनाकारैः समकालिक-रचनाकारैश्च नैवेयं परम्परा पालिता पाल्यते वा। आधुनिक-रचनाकारैः एतां प्राचीन-परम्परां परित्यज्य स्वरचनाकौशलेन स्वतन्त्ररूपेण स्वीयं लेखनं प्रतिष्ठापयितुं रुचिः प्रदर्शिता। सम्प्रति यथा अन्यासु भाषासु विधा-भाषा-शिल्पगतत्वेन  लेखकानां विभिन्ना नूतनप्रवृत्तयः परिलक्ष्यन्ते तथैव संस्कृतसाहित्यस्य गद्य-पद्य-नाट्य-बाल-अनूदित-साहित्ये अपि विधा-भाषा-शिल्पगतत्वेन विभिन्नानां नूतन-प्रवृत्तीनां दर्शनं भवति।

                     संस्कृत-साहित्यस्यास्यां परम्परायां प्रामुख्येन काव्यं त्रिविधं गद्यकाव्यं पद्यकाव्यं नाट्यकाव्यञ्च। आधुनिककालेऽस्मिन् संस्कृतरचनाकारैः यथा गद्यसाहित्यं नाट्यसाहित्यञ्च समृद्धं कृतं तथैव पद्यसाहित्यमप्यत्यधिकमुन्नतमकारि। प्रतिदिनं संस्कृत-रचनाकारैः स्वीयरुच्यानुसारं नूतनानां काव्यानां सर्जनं कृत्वा संस्कृत-पद्य-साहित्यं सुसमृद्धं क्रियते। अस्मिन्नेव  पद्यसाहित्ये विधागत-भाषागत-शिल्पगतत्वेन साम्प्रतिके काले संस्कृतरचनाकाराणां विभिन्नाः नूतनप्रवृत्तयः द्रष्टुं शक्यन्ते। तासामेव नूतनप्रवृत्तीनां प्रतिफलं वर्तते यत् समकालिकं पद्यसाहित्यं प्राचीनपरम्परायां लिखितेन साहित्येन सह नूतनं स्वरूपं धरति। समकालिक-पद्यसाहित्ये आगतानां तासां नूतनानां प्रवृत्तीनां क्रमशः प्रतिपादनं कुर्मः, तद्यथा-

(1)-विधागत-नूतनप्रवृत्तयः– गच्छताकालेन यथा समाजे परिवर्तनं परिलक्ष्यते तथैव साहित्येऽपि परिवर्तनं भवति। यतो हि साहित्यं भवति समाजस्य दर्पणः। तदनुसारमेव अस्यां संस्कृतपद्य-साहित्यिक-परम्परायामपि प्राचीनपद्य-साहित्यिक-विधाभिस्सह नूतनाः साहित्यिकविधाः अपि आगताः। यासु विधासु रचनां कृत्वा आधुनिक-संस्कृत-रचनाकाराः संस्कृत-पद्य-साहित्यस्य श्रीवृद्धिं कुर्वन्ति। काश्चन विधाः निम्नलिखिताः सन्ति, यासु  आधुनिक-रचनाकाराः नूतनं साहित्यं रचयन्ति, तद्यथा-महाकाव्य-लघुकाव्य-खण्डकाव्य-शतककाव्य-लहरीकाव्य-स्तोत्रकाव्य-गीतिकाव्य-अनूदितकाव्य-इत्यादयश्च। एतासु विधासु सन्ति सिद्धहस्ताः बहवः आधुनिक-संस्कृत-रचनाकाराः, सन्ति कतिचन सुप्रसिद्धानि नामानि, तद्यथा-प्रो0 राधावल्लभत्रिपाठी-प्रो0 रेवाप्रसादद्विवेदी-सदानन्दडबराल-पण्डिताक्षमाराव-डॉ.हरिनारायणदीक्षित-श्रीमथुरानाथशास्त्री-डॉ.प्रकाशपन्त-डॉ.राजेन्द्रमिश्र-प्रो0बनमालिविश्वाल- डॉ.रमाकान्तशुक्ल-डॉ.हेमचन्द्रबेलवाल-डॉ.निरञ्जनमिश्र-इत्यादयश्च। काश्चन विधाः निम्नलिखिताः सन्ति, यासु साहित्यं लिखितं वर्तते, तद्यथा-

 1.(क).महाकाव्यम्- कालिदास-भारवि-माघ-इत्यादीनां प्राचीनानां कवीनामिव आधुनिक-रचनाकाराः अपि महाकाव्य-विधायां रचनां कृत्वा पद्यसाहित्यं सुसमृद्धं कुर्वन्ति। उदारणस्वरूपेण डॉ.निरञ्जनमिश्र-वर्याणां “गंगापुत्रावदानम्” नामाभिधेयं महाकाव्यं द्रष्टुं  शक्यते।

1.(ख).गीतिकाव्यम्– डॉ. रमाकान्तशुक्लवर्यैः लिखितं “भाति मे भारतम्” अस्य गीतिकाव्यस्य प्रमुखमुदाहरणं वर्तते। इदं गीतिकाव्यं अष्टाधिकएकशतपद्येषु निबद्धं वर्तते। काव्यमिदं गीतिरत्नं वर्तते।

1.(ग).शतककाव्यम्-  अस्यां विधायां लिखितं वर्तते डॉ.हेमचन्द्र बेलवाल-वर्यैः ‘उत्तराखण्डसुषमा’ नामाभिधेयं काव्यम्। काव्येऽस्मिन् शतकद्वयं वर्तते- उत्तराखण्डशतकम्, नारी-शतकञ्च। उत्तराखण्डशतकम्’ इत्यभिधेयस्य काव्यस्य पद्यमेकं, तद्यथा-

राज्येऽस्मिन् स प्रविलसति रुद्रप्रयागः प्रयागः

यत्क्रोडे सम्प्रति जयति देवः स केदारनाथः।

आस्थावन्तो विभवमखिलं मन्वते तुच्छमत्र

स्वान्तः सौख्यार्जननिपुणतां  केवलं प्राप्तुकामाः॥23॥

1.(घ).अनूदितकाव्यम्- अनूदितकाव्यस्य उपविधारूपेण वर्तते हिन्दी-चलचित्रस्य गीतानां संस्कृतानुवादः। हिन्दीचलचित्रस्य गीतानां संस्कृतानुवादकरणे सन्ति बहवः रचनाकाराः, तथापि सुप्रसिद्धं नाम वर्तते, डॉ. पंकज-झा वर्याणां। एतैः बहूनि गीतानि अनूदितानि। सुप्रसिद्धमेकं  गीतं, तद्यथा-

प्रतिपलं मम संस्मरणं स्मरणे मात्रं त्वं हृदयस्येमां वार्त्तां कथयान्यहं कम् ?

तव मम  मम तव एक प्राणाः, एक प्राणाः किं कुर्याम्?
भ्रमाणि, नृत्यानि, गायानि, लिखानि तव कृते किं कुर्याम् ?
शनैः शनैः मम जीवने आगच्छ, शनैः शनैः मम हृदयं चोरय ।
त्वत्तः प्रेम कति मे शुभ्रे प्रियतमे सति मेलने जानीहि ज्ञापने……

(2)-भाषागत-नूतनप्रवृत्तयः– वैज्ञानिके युगेऽस्मिन् आधुनिक-संस्कृत-पद्यसाहित्यस्य रचनाकाराणां भाषा प्राचीन-काव्यकाराणां साहित्यिकभाषा इव अनावश्यक-सन्धि-समास-अलङ्कार-गुणोपेता न वर्तते। अपितु समकालिक-पद्य-साहित्यस्य भाषा सरला, सुबोधा, पाठकबोधगम्या च वर्तते। भाषायाः अस्या निर्मलता, सुस्पष्टता, स्वच्छता च विषयवस्तुपाठकयोर्मध्ये व्यवधानं नोत्पादयति।आधुनिक-संस्कृत-भाषायाः प्रधानगुणो वर्तते तस्याः सरलता। समकालिक-संस्कृत-रचनानां  भाषायां प्रवाहमयतायाः  स्वभाविकतायाः व्यावहारिकतायाश्च कृते  प्रश्रयो दीयते तथा क्लिष्टता-कृत्रिमता-आडम्बरादीनां तिरस्कारो क्रियते। आधुनिक-रचनाकारैः नित्यनूतनशब्दानां प्रयोगेण भाषाशैल्यां सततं परिवर्तनं विधीयते। आधुनिक-रचनानां भाषा प्रायः सरला, सहजा प्रवाहयुक्ता, सुबोधा, विविध-विशिष्टगुणोपेता, सर्वग्राहकत्वपरिपूर्णा वर्तते। आधुनिककाव्येषु एतादृशानि गुणोपेतानि कतिचन पद्यानि द्रष्टुं शक्यन्ते। यथा- डॉ.रमाकान्त-शुक्लवर्यैः लिखितस्य ‘भाति मे भारतम्’ काव्यस्य सरल-भाषोपेतं पद्यमेकम्, तद्यथा-

शम्प्रदं शङ्करं माधवं राघवं

पार्वतीं राधिकां जानकीं च स्तुवत्।

विट्ठलं बुद्धदेवं जिनं च स्मरद्,

भूतले भाति मेऽनारतं भारतम्॥29॥

आधुनिक-रचनाकाराणां रचनासु सम्प्रति प्रादेशिकभाषाणां शब्दाः अपि प्रयोज्यन्ते इति कथने नास्ति अतिशयोक्तिः। आधुनिक-रचनासु अन्यासां भाषाणां शब्दाः अनायासेन आगच्छन्ति।

(3)-शिल्पगत-नूतनप्रवृत्तयः– कस्याश्चिदपि रचनायाः मूल्याकनं शिल्पदृष्ट्या अपि आवश्यकं वर्तते। शिल्पं नाम निर्माणं अर्थात् रचनायाः निर्माणे यानि तत्त्वानि अत्यावश्यकानि भवन्ति तानि सर्वाण्यपि ‘शिल्प’ इति नाम्ना सम्बोध्यन्ते। आधुनिक-रचनाकाराणां  रचनासु विषयदृष्ट्या अपि काचित् नूतना प्रवृत्तिः द्रष्टुं शक्यते। आधुनिक-रचनाकाराणां रचनानां विषयाः सन्ति- सामाजिकाः, राजनैतिकाः, भौगोलिकाः, वैज्ञानिकाः,प्राकृतिकाः इत्यादयश्च।

                              अष्टादशशताब्दीं यावत् संस्कृत-कविगणः काभ्यश्चित् विगतशताब्दीभ्यः  चमत्कारपूर्णोपेतया शैल्या स्वाश्रयदातुः राज्ञः स्तुतौ संलग्न आसीत्। किन्तु नवदशशताब्द्याः आरभ्य संस्कृत-कवि-गणः राजस्तुति-परक-विषयेभ्यो विमुखी भूत्वा समाजे व्याप्ताः समस्याः प्रत्युन्मुखी जातः। तस्य कविगणस्य रचनानां विषयाः प्राधान्येन सामाजिकाः घटनाः जाताः। इयं नूतनप्रवृत्तिः संस्कृत-पद्यसाहित्ये प्रायः द्रष्टुं शक्यते, तद्यथा-डॉ.निरञ्जन-मिश्र-वर्यैः लिखितं  काव्यं,  केदारी घाटी विधवा बभूव’

काव्यमिदम् उत्तराखण्डराज्ये जूनमासे(16-17-2013 दिनाङ्के) प्रकृतिप्रकोपाज्जातामापदामाश्रित्य लिखितं वर्तते। कालकवलितानामात्मशान्त्यर्थं श्रद्धाञ्जलिरूपेण समर्पितमिदं लघुकाव्यं लेखकस्य प्रकृत्योन्मुखीं प्रवृत्तिं निर्दिशति। प्रकृत्योन्मुखी प्रवृत्ति सैव वक्तुं शक्यते, यस्यां विविध-प्राकृतिक-घटनानां वर्णनं क्रियते, तद्यथा-

केदार-आपदायाः वर्णनम्-

हे देव! तत्र बहवः पतिताः प्रवाहे

शैलाश्मखण्डपतनेन हतास्तथान्ये।

ग्रामाः गताश्च विलयं स्खलनेन भूमेः

कल्लोलिनीकरतलेन गतास्तथान्ये॥30॥ केदारघाटी0॥

भूगर्तमध्यपतिताः क्व गता न जाने

धारा जघास मनुजान् न पशून् गृहॉंश्च।

चित्रावशेषभवनान्यभवन् बहूनि

सिद्धार्थयन्त्रपतिता मनुजा बभूवुः॥31॥केदारघाटी0॥

समकालिक-काव्यानां वर्ण्यविषयेषु भ्रूणहत्या, बलात्कारः, विद्यालयीय-शिक्षा, विदेशभ्रमणं, यात्रा, सांस्कृतिक-पुनर्जागरणञ्चेत्यादयो विषयाः सारल्येनोपलभ्यन्ते।  समकालिक-समस्याः प्रति संस्कृत-रचनाकारः लेखितुं समुत्सुको वर्तते। शैलीगत-शिल्पगत-प्रवृत्तिभ्यां सह विषयवस्तुनि कथ्ये च या नवीनता परिलक्ष्यते सैवापि आधुनिक-संस्कृत-साहित्यस्य वैशिष्ट्यं प्रतिपादयत्येव।एतादृशान् आधुनिकान् विषयान् आश्रित्य सम्प्रति संस्कृत-रचनाकाराः सततं रचनाः कुर्वन्तस्सन्ति।

                                                 शोधसारांशः

प्राचीनकालादारभ्य आधुनिक-कालं यावत् संस्कृत-साहित्य-लेखनस्य परम्परा निर्बाधतया प्रवर्तमाना वर्तते। समये-समये विभिन्न-रचनाकारैः  स्व-सुप्रसिद्धाभिः रचनाभिः इयं परम्परा संरक्षिता संवर्द्धिता च। गच्छताकालेन अस्यां परम्परायां विभिन्नानि परिवर्तनानि अपि जातानि। तत्परिवर्तनस्य फलमिदं यत् आधुनिक-संस्कृत-साहित्ये सर्जने नूतन-प्रवृत्तयः आगताः। एताः प्रवृत्तयः समकालिक-संस्कृत-साहित्यस्य नूतन-प्रवृत्तयः वक्तुं शक्यन्ते।  एताः प्रवृत्तयः भाषा-शिल्प-विधा-विषय-इत्यादिभिः विविध-प्रकारकाः सन्ति।  आधुनिक-संस्कृत-साहित्यस्य प्रमुखं वैशिष्ट्यं वर्तते यत्, तस्य भाषा सरला , सुबोधा, समधुरा च वर्तते। आधुनिक-साहित्यस्य भाषा लेखकपाठकयोर्मध्ये व्यवधानं नोत्पादयति। विविधेषु अपेक्षितेषु स्थानेषु अन्यासां प्रादेशिक-भाषाणां  शब्दाः अपि स्वीक्रियन्ते। आधुनिकसंस्कृत-साहित्ये अनावश्यक-सन्धि-समासाः न सन्ति। शिल्पदृष्ट्या अपि आधुनिक-साहित्यं प्राचीनसाहित्येन सह भिन्नतामाप्नोति। समकालिक-संस्कृत-पद्य-साहित्यस्य विषयाः नूतनाः सन्ति। राजनैतिक-आर्थिक-भौगोलिक-वैज्ञानिक-प्राकृतिक-वैश्विक-विषयान् आश्रित्य समकालिक-रचनाकाराः रचनाः कुर्वन्तः सन्ति। नूतनानि प्रयोजनान्याश्रित्य साहित्यरचनायां संलग्नाः सन्ति। विधादृष्ट्या अपि पश्यामः तर्हि एतद्द्रष्टुं शक्यते यत् संस्कृत-पद्य-साहित्ये समये-समये नूतनाः विधाः आगताः। बहवः विधाः अन्याभ्यः भाषाभ्यः स्वीकृताः सन्ति, तासु सर्वासु विधासु रचनाः विधाय सर्वेऽपि रचनाकाराः संस्कृत-पद्य-साहित्यस्य श्रीवृद्धिं कुर्वन्ति। रस-छन्द-अलङ्कार-गुण-रीति-इत्यादीनां दृष्ट्या अपि आधुनिक-संस्कृतपद्य-साहित्ये आधुनिक-रचनाकाराणां नूतनप्रवृत्तिः विभिन्नेषु नूतनकाव्येषु द्रष्टुं शक्यते।

 सन्दर्भग्रन्थसूची

  1. 1. “रोदिति भारतं मे”- डॉ. हेमचन्द्र बेलवालः, प्रकाशकः- सत्यं पब्लिशिंग हाऊस, नई दिल्ली।
  2. “भाति मे भारतम्”- डॉ.रमाकान्त-शुक्लः, प्रकाशकः- देववाणी-परिषद्, दिल्ली आर-6, वाणी विहारः, नयी दिल्ली-110059(भारतम्).
  3. “गङ्गापुत्रावदानम्”- डॉ. निरञ्जन मिश्रः, सत्यं पब्लिशिंग हाऊस, नई दिल्ली।
  4. “केदारघाटी-विधवा-बभूव”-डॉ. निरञ्जन मिश्रः, प्रकाशकः- प्रगतिशील प्रकाशन, नई दिल्ली।
  5. “आधुनिक संस्कृत साहित्य का सुबोध इतिहास” डॉ. दीपक कुमार पाठकः, प्रकाशकः-युवराज पब्लिकेशन्स, पुस्तक प्रकाशक एवं सप्लायर्स 42, लता कुंज, मथुरा रोड, आगरा।
  6. समकालिक संस्कृत साहित्य की नवीन प्रवृत्तियां- प्रो.बनमालि बिश्वालः, प्रकाशकः- कविकुलगुरु कालिदास संस्कृत विश्वविद्यालयः, मउदामार्ग, नागपुर, रामटेक, महाराष्ट्र-441106.

 

 

शोधलेखकः-डॉ.मधुसूदन सती

मो.न.-9068429661

Note- उपर्युक्त शोधलेख ‘शब्दार्णव’ षाण्मासिकी शोधपत्रिका, वर्ष-6, भाग-2, जनवरी-जून-2020 में प्रकाशित करवाया गया है जो कि सर्वाधिकार सुरक्षित है।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!