संस्कृतसाहित्ये श्रीबोधिसत्त्वचरितस्य महत्वम्

संस्कृतसाहित्ये श्रीबोधिसत्त्वचरितस्य महत्वम्

            भागीरथी गङ्गेव संस्कृतसाहित्यस्य  परम्पराऽपि प्राचीनकालादेव प्रवहमाना वर्तते। इयं परम्परा प्रामुख्येन द्विविधा- वैदिक-परम्परा, लौकिक-परम्परा चेति। वैदिक-परम्परायाः आरम्भो वेदानां रचना-कालात् स्वीक्रियते तथा लौकिक-परम्परायाः आरम्भो वाल्मीकि-रामायणस्य रचनाकालादारभ्य स्वीक्रियते। गच्छताकालेन अस्यां संस्कृत-साहित्य-परम्परायां विभिन्न-धर्माणां सम्प्रदायानाञ्च प्रभावोऽभूत्। तत्तद्धर्मेषु सम्प्रदायेषु च समुत्पन्नाः रचनाकाराः स्व-रचनानां माध्यमेन संस्कृतसाहित्ये महद्योगदानमकुर्वन्। तादृशेषु विभिन्नधर्मेषु अस्ति विशिष्टो बौद्धधर्मः। अस्यां बौद्धपरम्परायां आसन् नैके संस्कृत-रचनाकाराः ये स्वरचनासाहित्यमाध्यमेन संस्कृत-साहित्याकाशे स्वकीर्ति-पताकां तेनुः। इयं बौद्धसंस्कृत-परम्पराऽपि प्राचीनपरम्परा आधुनिकी-परम्परा चेति द्विधा विभक्तुं शक्यते। अस्यां प्राचीन-बौद्ध-संस्कृत-साहित्य-परम्परायां निम्नलिखितप्राचीनबौद्धसाहित्यस्य योगदानमस्ति, तद्यथा- अश्वघोषस्य बुद्धचरितं सौन्दरनन्दं च, बुद्धघोषस्य पद्यचूडामणिः(सिद्धार्थचरितम्), शिवस्वामिनः कप्फिणाभ्युदयम्, क्षेमेन्द्रस्य बोधिसत्त्वावदानमाला, कुमारलातस्य  कल्पनामण्डतिका, आर्यशूरस्य जातकमाला दिव्यावदानं च, अश्वघोषस्य उर्वशीवियोगं सारिपुत्रप्रकरणं च, हर्षवर्धस्य नागानन्दम्, नालन्दादहनम्। 

 आधुनिक-बौद्ध-संस्कृसाहित्य-परम्परायामपि निम्नलिखितबौद्धसाहित्यस्य योगदानमविस्मरणीयमेव, तद्यथा- काव्येषु सत्यव्रतशास्त्रिणः श्रीबोधिसत्त्वचरितम्, आचार्यशान्तिभिक्षुशास्त्रिणः बुद्धविजयकाव्यम्, बुद्धोदयकाव्यम् अशोकाभ्युदयकाव्यं च, पं. ओगेटि परीक्षित् शर्मणः यशोधरामहाकाव्यम्, ओसकेरे-नागप्पशास्त्रिणः श्रीमद्बुद्धभागवतम्, डॉ. प्रफुल्लगडपालस्य महाबोधिद्रुमविजयं भदन्तसदानन्दचरितामृतं च। रूपकेषु उपरूपकेषु च- डॉ. वीरेन्द्रकुमारभट्टाचार्यस्य सिद्धार्थचरितम्, डॉ. चन्द्रभानुत्रिपाठिनः सुजाता, डॉ. मिथिलेशकुमारीमिश्रायाः आम्रपाली, देवर्षिकलानाथशास्त्रिणः महाभिनिष्क्रमणम्, रामज्युपाध्यायस्य नन्दगौतमीयम् अशोकविजयं च, रामकुमारवर्मणः विजयपर्वः, डॉ. नारायणशास्त्रिणः अशोकस्य पराजयः, कुणालस्य कुलीनता च, धर्मानन्दकोसम्बिनः बोधसत्त्वश्च।

                   डॉ. सत्यव्रतशास्त्रिणा विरचितं “श्रीबोधिसत्त्वचरितम्” संस्कृतसाहित्यस्य महाकाव्यविधायामन्तर्भवति। महाकाव्येऽस्मिन् चतुर्दशसर्गाः सन्ति। ।  “श्रीबोधिसत्त्वचरितम्” नामाभिधेयं काव्यमिदं महात्मनो बोधिसत्त्वस्य पूर्वजन्मकथानकान्याश्रित्य प्रवृत्तम्। बौद्धधर्मस्य जातक-कथानां काव्यात्मकं स्वरूपं महाकाव्येऽस्मिन् परिलक्ष्यते। बोधिसत्त्वो हि भगवतः सुगतस्यैव पूर्वावस्था। एष भगवान् तासु अनेकासु योनिषु बहुधाऽऽजायत। यदाऽस्य महात्मनः बोधोऽजनि तदैव “बुद्ध” इत्यस्य संज्ञा प्राप्ता। “बोधि” इत्यस्य पदस्यार्थो भवति ज्ञानं तथा “सत्व” इत्यस्य पदस्यार्थो भवति प्राणी। अर्थात् बुद्धत्वमाप्तुं यत्नशीलः प्राणी। पारिभाषिक-शब्दावल्यानुसारं बुद्धत्वप्राप्तेः प्राक्जन्मेषु दानशील-परिमितादिभिः बोधप्राप्त्यर्थं प्रयत्नशील-प्राणी “बोधिसत्त्व” इत्युच्यते। बुद्धाभिधेयस्य प्राप्तेः प्राक् भगवान् बोधप्राप्त्यर्थं यत्नं कुर्वनासीत्। अत एव तस्मिन् काले भगवान् बुद्धः बोधिसत्त्वः आसीत्।

बौद्धधर्मस्य द्वौ दृढस्तम्भौ स्तः, पुनर्जन्म कर्मसिद्धान्तश्च। बौद्धधर्मानुसारं यावत्पर्यन्तं ज्ञानं न लभते तावत्पर्यन्तं जीवः पौनः पुन्येन कीट-पतङ्ग-कुक्कुर-शूकर-पशु-पक्षी-इत्यादिषु योनिष्वेव विचरणं करोति। यदुक्तं, तद्यथा-

         अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम्॥

  अर्थात् यादृशानि कर्माणि प्राणिभिः क्रियन्ते तदनुगुणं ते फलमाप्नुवन्ति।

                                   श्रीबोधिसत्त्वचरिते विभिन्नेषु प्रसङ्गेषु समागतानि विभिन्नानि लोकोपकारी-चिन्तनानि अस्य श्रीबोधिसत्त्वचरितस्य महत्त्वं  निर्विवादरूपेण पाठकानां समक्षे समुपस्थापयन्ति, तथास्य लोकोपयोगितामपि प्रकटयन्ति। तानि लोकोपकारी-चिन्तनानि निम्नलिखितानि सन्ति, तद्यथा-

( 1). मानवचिन्तनम्– अस्य महाकाव्यस्य प्रथमे सर्गे यदा वणिक्-पुत्रः व्यापारार्थं गच्छति, तदा मार्गे मरुप्रदेशं वीक्ष्य दुःखमाप्नोति। सः चिन्तयति तत्रत्यः निवासिनः कथं जीवन्ति तादृशौ विषमपरिस्थितौ , तद्यथा-

सन्तीदृशाः केऽपि च भूमिभागाःजलस्य लेशोऽपि न यत्र लभ्यः।

भोज्यस्य तत्रास्ति कथैव का वा  प्रजापतेः सृष्टिरियं विचित्रा॥33।।

(श्री बोधिसत्त्वचरितम्, प्रथमः सर्गः)

(2).नैतिकशिक्षायाः चिन्तनम्–  मरुभूमौ गमनकाले यदा दैत्यमतानुसारं वणिक्पुत्रः घटेषु पूरितजलं भूमौ पातितवान् , तदा किञ्चित्कालानन्तरम् अग्रे गत्वा जलमप्राप्य सम्पूर्णेन स्वसमूहेन सह दुःखमनुभूतवान्। यदुक्तं, तद्यथा-

तृषाऽऽकुलोऽभूदनुयायिवर्गोऽप्यमुष्य वैश्यस्य, न केवलं सः।

अनर्थमेकः कुरुते तदीयं फलं तु पृष्ठचरोऽपि भुङ्क्ते॥1॥59॥

   (श्री बोधिसत्त्वचरितम्, प्रथमः सर्गः)

 पुनः सः वणिक्पुत्रः स्वदलेन सह मृत्युं प्राप्तवान् स्व धन-लोभेन, तद्यथा-

एवं स्वसार्थेन समं स वैश्य मौढ्याच्च लौल्याच्च विनाशमापत्।

चञ्चूर्यमाणो द्रविणाय गृध्नुः  कथं न नश्येदविमृश्यकारी।1।64॥

(श्री बोधिसत्त्वचरितम्, प्रथमः सर्गः)

द्वितीयसर्गस्य सप्तचत्वारिंशततमे श्लोकेऽपि अयं भावः, यदा कोसलाधिपतेः सारथिः स्वस्वामिनः शीलत्वं प्रतिपादयति, तद्यथा-

 यादृशी भवति यस्य भावना, तादृशीं स खलु सिद्धिमृच्छति।

सोपपत्तिकमिदं वचः स्वयं मल्लिकोऽत्र चरितार्थयत्ययम्॥2।47॥

(श्री बोधिसत्त्वचरितम्, द्वितीयः सर्गः)

(3)सदाचारस्य शिक्षायाः चिन्तनम्– द्वितीयसर्गस्य अन्ते काशीराजस्य गमनानन्तरं कोशलनरेशो मल्लिकः शीलस्य शिक्षां प्राप्य स्वनगरं प्रत्यगच्छत्। तदनन्तरं द्वितीयसर्गस्य कथायाः परिसमाप्तिकाले प्रसङ्गानुगुणं  सदाचारस्य महत्वम् इत्थं प्रतिपादयति महाकविः, तद्यथा-  

 विना सदाचारमहं विलोके न जीवनं किंचन जीवलोके।

सदाऽपकारिष्वपि चोपकाराद्  द्रवन्मना योऽस्ति महान् स एव॥2।66॥                                                       

तथा महत्त्वं न धनस्य विद्यत  वृथार्जनात् तेन मनश्च खिद्यते। 

यथेह शीलं सदलंकरोत्यलं महोज्ज्वलं मानवजन्म निर्मलम्॥2।67

(श्री बोधिसत्त्वचरितम्, द्वितीयः सर्गः)

 (4)अहिंसायाः  चिन्तनम्–   तृतीयसर्गे कोशल-नरेशस्य आक्रमण-कारणात् नष्टां स्वनगरीं वाराणसीं दृष्ट्वा  कोशलनरेशं प्रति कुपितान् स्वसैनिकान् प्रति काशीनरेशः राजा शीलवानः अहिंसा परमो धर्मः  इत्युक्त्यानुसारं  अहिंसाधर्मं परिपालयन् कथयति,  यत् भवद्भिः कोशलपतिना सह वैरभावो न करणीयो यतोहि सुखमाप्तुं हिंसायाः मार्गो न श्रेयस्करः, तद्यथा-

हिसैंव वर्धते बह्वी हिसकं प्रति हिंसया ।

सुखमात्यन्तिकं लब्धुमहिंसैव गरीयसी ।3।80॥

(श्री बोधिसत्त्वचरितम्, तृतीयः सर्गः)

(5)-दयाधर्मस्य चिन्तनम्- कोशलपतिना सह वैरभावयुक्तेभ्यः स्वसैनिकेभ्यः काशीनरेशः       राजा शीलवानः  अहिंसायाः शिक्षां प्रदाय दयाधर्मस्य शिक्षामपि ददाति, श्रीबोधिसत्त्वचरितस्य तृतीयसर्गे, तद्यथा-

शान्त्या प्रशमयेत् क्रोधं सलिलेनेव पावकम्।

चित्तं प्रसादयेद् धीमान् सर्वभूतानुकम्पया॥3॥81॥

(श्री बोधिसत्त्वचरितम्, तृतीयः सर्गः)

(6).प्राणिसमभावचिन्तनम्- अस्य महाकाव्यस्य चतुर्थे सर्गे विपत्तौ सत्यपि काशीराजः शीलवानः धैर्यं न त्यजति अपितु समभावप्रेरणया स्वमन्त्रिणः प्रति एवम् उपदिशति- 

         सच्चिदानन्दरूपत्वादस्य शत्रुर्न विद्यते।

         एक एवायमस्मासु देहोद्भेदस्तु भिद्यते॥19॥

         संभिन्नमात्मनात्मानं मत्वा तस्मादनारतम्।

         उदासीनवदासीनैः कार्यं कार्यं विचक्षणैः।4।20।। .

(श्री बोधिसत्त्वचरितम्, चतुर्थः सर्गः)

                                            एतादृशानि बहूनि  लोकोपकारी-चिन्तनानि  संस्कृत-साहित्ये अस्य श्रीबोधिसत्त्वचरितस्य महत्वं प्रतिपादयन्ति, यतो हि एतादृशानि चिन्तनानि समेषां जनानां कृते लौकिकजीवने समये-समये  विभिन्न-शिक्षाः यच्छन्ति। ताः शिक्षाः अवाप्य जनाः स्वकीयं लौकिक-जीवनम् आदर्शमयं कर्तुं शक्नुवन्ति।

 

शोधसारांशः

                                    नित्यप्रवाहमानत्वात् भागीरथीगङ्गेवेयं संस्कृतसाहित्यस्य परम्पराऽप्यतिप्राचीना। गच्छताकालेनास्यां संस्कृतसाहित्यस्य परम्परायामभूत् विभिन्नधर्माणां सम्प्रदायानाञ्च प्रभावः। तत्तद्धर्मेषु सम्प्रदायेषु च समुत्पन्नाः रचनाकाराः स्वशिक्षाप्रद-रचनानां माध्यमेनास्य संस्कृतसाहित्यस्य परम्परायां महद्योगदानमकुर्वन्। अस्ति विभिन्नधर्मेषु विशिष्टोऽयं बौद्धधर्मः यमावलम्ब्य कृतरचनाकाराः आधुनिकपरम्परायां समुत्पन्नाः सत्यव्रतशास्त्री, , पं. ओगेटि परीक्षित् शर्मणः इत्यादयश्च। डॉ.सत्यव्रतशास्त्रिणा विरचिते चतुर्दशे सर्गात्मके श्रीबोधिसत्त्वचरिते पदे पदे समागतानि लोकोपकारी-चिन्तनानि लौकिक-जीवने मनुष्याणां कृते विभिन्नाः शिक्षाः यच्छन्ति। ताभिः शिक्षाभिः मनुष्याः स्वलौकिक-जीवनम् आदर्शपूर्णं कुर्वन्ति। अस्ति वैशिष्ट्यं “श्री-बोधिसत्त्वचरितस्य” यत् जातक-कथानां माध्यमेन बौद्धधर्मस्य शिक्षाः दीयन्ते महाकाव्येऽस्मिन् जनानां कथायां प्रवृत्तिकारणत्वात्। एतादृश्यः शिक्षाः निर्विवादरूपेण संस्कृतसाहित्ये श्रीबोधिसत्त्वचरितस्य महत्वं प्रतिपादयन्त्येव।

सन्दर्भग्रन्थसूची

1.श्रीबोधिसत्त्वचरितम्(काव्यम्)- डॉ. सत्यव्रत-शास्त्री, मेहरचन्द लछमनदास पब्लिकेशन्स, 4225-ए 1 अंसारी रोड, दरियागंज, नई दिल्ली।

2.संस्कृतसाहित्य का इतिहास- आचार्य बलदेव उपाध्याय, शारदा निकेतन प्रकाशन, वाराणसी।                                        

शोधलेखकः-डॉ. मधुसूदन सती

 दूरभाष सं- 9068429661

NOTE-उपर्युक्त शोधलेख ‘दृष्टिकोण’ यू.जी.सी केयर ग्रुप लिस्टेड शोधपत्रिका के वर्ष-13, अंक-1, जनवरी-फरवरी 2021 में प्रकाशित किया गया है जो कि सर्वाधिकार सुरक्षित है ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!