शशिधर शर्मा
जन्मपरिचयः शिक्षा च-अस्य साहित्यकारस्य जन्म उत्तराखण्डराज्यस्य ‘देवप्रयाग’ इति नामाभिधेये तीर्थस्थले 1932 ई. तमे वर्षेऽभूत्। अस्य पिता कविः चक्रवर्ती ‘सदाराम’ देव्युपासकः आसीत्। कवेरस्य माता ‘मोहिनी देवी’ आसीत्। अयं कविरपि बाल्यकालाद् शक्त्युपासकः आसीत्। अस्य कवेः प्रारम्भिकशिक्षा देवप्रयाग एव अभूत्। अनन्तरं कविरयं संस्कृताध्ययनार्थं ऋषिकुल-ब्रह्मचर्याश्रमं हरिद्वारमगच्छत्। तत्पश्चात् उच्चशिक्षार्थं वाराणसीमगच्छत्। ततो व्याकरणाचार्यस्य परीक्षां प्रथमश्रेण्यामुदरत् तथा वेदान्ततीर्थस्य परीक्षां ‘बंगाल-संस्कृत-समिति’ कलकत्तातः उत्तीर्य स्वर्णपदकञ्चालभत। अनेन कविना ‘पंजाब विश्वविद्यालये’ चण्डीगढ़े 1962 ई. तमे वर्षे प्रवक्तृपदमलङ्कृत्य स्वीयाध्यापनकार्यम् आरब्धम्। अनन्तरं कविरयं 1993 ई. तमे वर्षे अस्मादेव विश्वविद्यालयात् सेवानिवृत्तोऽभूत्।
सम्मानाः/ पारितोषकानि
-
-
- 1980ई. तमे वर्षे वसन्तविहारे देहल्यां, शृंगेरीमठस्य
-
परमाचार्येण जगद्गुरुणा सभाजितः।
-
-
- 1984-85 ई. तमे वर्षे राष्ट्रपतिना सभाजितः।
- 2006ई. तमे वर्षे मुख्यमन्त्रिणा, उत्तराखण्डसर्वकारेण विशिष्टसम्मानेन सम्मानितः।
-
कृतित्वम्-प्रामुख्येन कवेरस्य रचनाः निम्नलिखिताः सन्ति, तद्यथा-
प्रकाशित-रचनाः-
-
-
-
- वीरतरंगिणी,
- विवेक-विजयम्,
- शांकरसर्वस्वम्,
- कैनेडी-करुणाञ्जलिः(खण्डकाव्यम्)
- लाल-कुसुमाञ्जलिः(खण्डकाव्यम्)
- ख्यातिवाद-सारः।
-
-
- अप्रकाशित-रचनाः-
-
-
- क्रोधं प्रभोरित्यादि-पद्ये भवपदप्रयोगौचित्य–विमर्शः,
- गंगास्तवसारः,
- गीत-गिरिजम्,
- तारा-द्वादशी (संस्कृत-श्लोकबद्धः)
-
-