श्रीमदनमोहन जोशी
जन्मपरिचयः शिक्षा च-अस्य साहित्यकारस्य जन्म उत्तराखण्डराज्यस्य ‘पौड़ी’ जनपदान्तर्गते ‘गढ़मोनू’(खातस्यूं) नामाभिधेये ग्रामे मई-मासस्य 20 दिनाङ्के 1945 ई. तमे वर्षेऽभूत्। अस्य पितुर्नाम ‘अमरजोशी’ मातुर्नाम ‘कलावती देवी’ च आसीत्। अस्य पितामहः ‘पण्डित-तुलारामः’ प्रपितामहः ‘पण्डित-बेलानन्दः’ च आसीत्। अनेन कविना प्रारम्भिकशिक्षा स्वग्रामे एव लब्धा। अनन्तरम् अयं रचनाकारः संस्कृतं पठनार्थं हरिद्वारमगच्छत्। तत्र गत्वा ‘निर्मल-संस्कृत-महाविद्यालये’ आचार्यपर्यन्तं संस्कृतशिक्षाम् उत्तमश्रेण्याम् अलभत। अनन्तरम् अयं रचनाकारः ‘सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयात्’ साहित्याचार्यस्य शिक्षाशास्त्रिणश्च परीक्षे, ‘दिल्ली विश्वविद्यालयात्’ एम.ए.(वेद) परीक्षाञ्च उदतरत्। तत्पश्चाद् अनेन रचनाकारेण ‘रामजस-वरिष्ठ-माध्यमिक-विद्यालये’ देहल्यां 1968ई. तमे वर्षे वरिष्ठप्रवक्तृपदमलङ्कृत्य स्वाध्यापनकार्यं आरब्धम्।
कृतित्वम्– अनेन रचनाकारेण विरचिताः रचनाः निम्नलिखिताः सन्ति, तद्यथा-
-
-
- रूपकपञ्चकम्(वर्तमानकालिकसमस्या आश्रित्य विरचितानि नाटकानि)
- चन्द्रशेखरवरीयम्
- मुहूर्त्त विचार (हिन्दीपद्य)
-