‘संस्कृत-निर्झरा’
प्रथमो भागः
कक्षा-11
द्वितीयः पाठः
नीतिवचनानि
सम्पूर्णपाठाधारिताः अभ्यास-प्रश्नाः
प्र.1. एकपदेन उत्तरत-
(क) किं चञ्चलम् ?
उत्तरम्- यौवनम् ।
(ख) कस्य बन्धुत्वं नास्ति ?
उत्तरम्-कालस्य ।
(ग) कः परिहर्तव्यः ?
उत्तरम्- दुर्जनः।
(घ) सर्पः केन भूषितः भवति ?
उत्तरम्- मणिना ।
(ङ) अज्ञेभ्यः के श्रेष्ठाः?
उत्तरम्-ग्रन्थिनः।
(च) तत्वदर्शनं किम् ?
उत्तरम्- दुर्लभम् ।
(छ) विद्या कीदृशी भवेत्?
उत्तरम्-अर्थकरी ।
(ज) भार्या कीदृशी भवेत्?
उत्तरम्- इष्टा ।
प्र.2. पूर्णवाक्येन उत्तरत-
(क) किं कृत्वा धर्मरतो भवेत् ?
उत्तरम्-यौवनं जीवनं वित्तं छाया लक्ष्मीः स्वामिता च षड् एतानि चञ्चलानि ज्ञात्वा (मनुजः) धर्मरतो भवेत्।
(ख) कालस्य किं नास्ति ?
उत्तरम्- कालस्य बन्धुत्वं न अस्ति।
(ग) दुर्जनः कथं परिहर्तव्यः ?
उत्तरम्- दुर्जनः विद्यया भूषितः सन् अपि परिहर्तव्य: ।
(घ) मनुजः दारान् कथं रक्षेत्?
उत्तरम्- मनुजः धनैः अपि दारान् रक्षेद् ।
(ङ) किमर्थं धनं रक्षेत् ?
उत्तरम्- आपदर्थे धनं रक्षेद् ।
(च) केभ्यः व्यवसायिनः श्रेष्ठाः ?
उत्तरम्-ज्ञानिभ्यो व्यवसायिनः श्रेष्ठाः।
(छ) कां विना सहजावस्था दुर्लभा ?
उत्तरम्- सद्गुरोः करूणां विना सहजावस्था दुर्लभा।
(ज) दुःखस्य मूलोद्धरणानि कति ?
उत्तरम्- दुःखस्य मूलोद्धरणानि ‘पञ्च’ ।
प्र.3. निर्देशानुसारम् उत्तरत-
(क) ‘षडेतानि’ अत्र सन्धिविच्छेदं कुरुत ।
उत्तरम्- षड्+एतानि।
(ख) ‘कालस्य’ इति पदस्य क्रियापदं किम् ?
उत्तरम्-अस्ति।
(ग) ‘विद्यया’ अत्र का विभक्तिः ?
उत्तरम्- तृतीया।
(घ) ‘निरन्तरम्’ इति पदस्य श्लोके पर्यायपदं किं प्रयुक्तम् ?
उत्तरम्- सततम्।
(ङ) ‘वराः’ अस्य समानार्थकपदम् अत्र किं प्रयुक्तम्?
उत्तरम्- श्रेष्ठा:।
(च) ‘ज्ञानिनः’ अस्य विपरीतपदं किम्?
उत्तरम्- अज्ञा:।
(छ) ‘दुर्लभः’ इति पदं कस्य विशेषणम्
उत्तरम्- विषयत्यागस्य।
प्र.4 विकल्पानुसारेण उचितांशं चित्वा रिक्तस्थानं पूरयत-
(क) कालस्य बन्धुत्वं…नास्ति…। (अस्ति / नास्ति)
(ख) मणिना भूषितः…सर्पः… भयङ्करः । (सर्पः/ छागः)
(ग) विद्यया भूषितः…दुर्जन:…भयङ्करो भवति। (दुर्जनः/सज्जनः)
(घ) अज्ञेभ्यो…ग्रन्थिन:…श्रेष्ठाः। (श्रेष्ठिनः / ग्रन्थिनः)
प्र.5 उचितांशैः सह मेलनं कुरुत –
(अ) (ब)
(क) आत्मानं सततं रक्षेद् छाया लक्ष्मीश्च स्वामिता ।
(ख) न मित्रज्ञातिसम्बन्धः दारैरपि धनैरपि।
(ग) अज्ञेभ्यो ग्रन्थिनः श्रेष्ठाः कारणं नात्मनो वशः।
(घ) यौवनं जीवनं वित्तं ग्रन्थिभ्यो धारिणो वराः।
उत्तरम्-
(अ) (ब)
(क) आत्मानं सततं रक्षेद् दारैरपि धनैरपि।
(ख) न मित्रज्ञातिसम्बन्धः कारणं नात्मनो वशः।
(ग) अज्ञेभ्यो ग्रन्थिनः श्रेष्ठाः ग्रन्थिभ्यो धारिणो वराः।
(घ) यौवनं जीवनं वित्तं छाया लक्ष्मीश्च स्वामिता ।
प्र.6 सन्धिं कुरुत –
(क) वित्तम् + छाया = वित्तं छाया
(ख) किम् + असौ = किमसौ
(ग) बन्धुत्वम् + न = बन्धुत्वं न
(घ)दुर्लभम् + तत्त्वदर्शनं = दुर्लभं तत्त्वदर्शनम्
प्र.7 अधः प्रदत्तैः स्थूलरेखायुक्तपदैः प्रश्ननिर्माणं कुरुत –
(क) षड् चञ्चलानि एतानि ।
उत्तरम्- षड् चञ्चलानि कानि ?
(ख)कालस्य बन्धुत्वं नास्ति ।
उत्तरम्- कस्य बन्धुत्वं नास्ति ?
(ग) किम् असौ न भयङ्करः।
उत्तरम्-
(घ)मणिना भूषितः सर्पः ।
उत्तरम्- केन भूषितः सर्पः ?
(ड़)आत्मानं सततं रक्षेत्।
उत्तरम्- कं सततं रक्षेत् ?
(च)अज्ञेभ्यो ग्रन्थिन: श्रेष्ठाः।
उत्तरम्- अज्ञेभ्य: के श्रेष्ठाः?