संस्कृत-सम्बोधिनी
द्वितीयो भागः
कक्षा-10th
द्वितीयः पाठः
जीविकोपार्जनम्
अभ्यासप्रश्ना:
-
- एकपदेन उत्तरत –
(क) जनः जीविकोपार्जनाय किम् इच्छति?
उत्तरम्- वृत्तिम् ।
(ख) संस्कृतशिक्षकः कः अस्ति ?
उत्तरम्- अहमदः ।
(ग) संस्कृतप्रवाचिका का अस्ति ?
उत्तरम्- श्वेता ।
(घ) वीरचन्द्रः कस्मिन् पदे नियुक्तिम् अलभत्?
उत्तरम्- ‘धर्मशिक्षक’ पदे ।
-
- पूर्णवाक्येन उत्तरत-
(क) श्वेता किं कार्यं कुर्वती अस्ति ?
उत्तरम्-श्वेता दूरदर्शने संस्कृत-प्रवाचिका-रूपेण कार्यं
कुर्वती अस्ति।
(ख) अनुजः कस्मिन् कर्मणि दक्षः अस्ति ?
उत्तरम्- अनुजः अनुवादकर्मणि दक्षः अस्ति ।
(ग) सतीशः कुत्र संस्कृतम् अध्यापयति ?
उत्तरम्-सतीशः अमेरिका-देशे सस्कृतम् अध्यापयति।
(घ) सौम्या किमर्थं सज्जतां कृतवती?
उत्तरम्- सौम्या प्रशासनिक-सेवायै सज्जतां कृतवती।
-
- निर्देशानुसारम् उत्तरत-
(क) ‘पठित्वा’ इति पदे कः प्रत्ययः ?
उत्तरम्- क्त्वा।
(ख) ‘आत्मानं धन्यं मन्ये’ अस्मिन् वाक्ये क्रियापदं किम् ?
उत्तरम्- मन्ये।
(ग) ‘प्रभूतं धनम्’ इति पदे विशेषणपदं किम् अस्ति ?
उत्तरम्- प्रभूतं ।
(घ) ‘नेत्रोन्मीलनम्’ अस्य पदस्य विच्छेदं कुरुत ?
उत्तरम्- नेत्र +उन्मीलनम् ।
-
- मञ्जूषातः क्रियापदानि चित्वा पञ्चवाक्यानि रचयत-
मञ्जूषा- ( प्राप्नुवन्ति, स्वीकरोति, अलभम्, शक्यते, सन्ति )
उत्तरम्-
(क) यादृशी वृत्तिः आवश्यकी तादृशीं शिक्षां जनाः प्राप्नुवन्ति।
(ख) चिकित्साक्षेत्रं गन्तुकामः तदनुगुणं विषयं स्वीकरोति।
(ग) अहं भारतीय-सेनायां ‘धर्मशिक्षक’ इति पदे नियुक्तिम् अलभम् ।
(घ) संस्कृतस्य गूढम् अध्ययनं कृत्वा सर्वमपि साधयितुं शक्यते।
(ङ) कानिचन पुराणानि अपि मया सम्यक् अधीतानि सन्ति।
-
- कोष्ठकेभ्यः उचितम् उत्तरं चित्वा रिक्तस्थानानि पूरयत –
(क) सः विज्ञानविषयान् पठति । (पठसि, पठति, पाठयति)
(ख) अहं संस्कृतशिक्षकः अस्मि। (अस्ति, सन्ति, अस्मि)
(ग) मया कदापि संस्कृतं न पठितम्। (पठतः, पठितम्, पठन्ति)
(घ) अहं मम पुत्र-पौत्रान् संस्कृतपठनाय प्रेरयामि। (प्रेरयामि, प्रेरयति,
प्रेरयन्ति)
-
- प्रकृति- प्रत्ययं पृथक् कुरुत-
(क) समाप्य = ………………..
(ख) भवितुम् = ………………..
(ग) मिलित्वा = ………………..
(घ) अधीत्य = ………………..
(ङ) कर्त्तुम् = ………………..
7.सन्धिं सन्धिविच्छेदं च कुरुत –
(क) जीविकोपार्जनम् – जीविका + उपार्जनम् ।
(ख) जानन्त्येव – जानन्ति+एव ।
(ग) नैकेषु – न + एकेषु ।
(घ) संस्कृत+अध्ययनेन – संस्कृताध्ययनेन ।
(ङ) न + अन्यत् – नान्यत् ।
(च) नेत्र + उन्मीलनम् – नेत्रोन्मीलनम् ।
-
- अधोलिखितानाम् अव्ययपदानां साहाय्येन संस्कृवाक्यानि रचयत-
(सम्यक्, अधुना, एव, सम्प्रति )
उत्तरम्-
(क) सः सम्यक् जानाति ।
(ख) कृष्ण: अधुना नृत्यति।
(ग) मनोज पठने एव उत्तमः अस्ति।
(घ) सम्प्रति वर्षा भवति।