उत्तराखण्डीय-समकालिन-संस्कृत-साहित्ये आञ्चलिकतायाः प्रभावः

उत्तराखण्डीय-समकालिन-संस्कृत-साहित्ये आञ्चलिकतायाः प्रभावः

भारतदेशे अनेकानि राज्यानि सन्ति। तेष्वेकम् उत्तराखण्डराज्यमपि वर्तते। राज्यमिदं ‘देवभूमिः’ इति नाम्ना ख्यातं वर्तते । इयं देवभूमिः सर्वविधप्रकारेण  आह्लादयति सर्वान् जनान् । उत्तराखण्डः रत्नप्रसूता धरा वर्तते। अस्यां देवभूमौ अनेके संस्कृत-सुकवयः अभवन्। ते अत्र विविधासु विधासु रचनाः अकुर्वन्।  तेषु केचन उत्तराखण्डराज्यस्य विषये लिखितवन्तः, केचन अन्यान् विषयान् आश्रित्य रचनाः कृतवन्तः। जन्मनः वा कर्मणः उत्तराखण्डीय-समकालिन-संस्कृत-रचनाकारेषु कानिचन नामानि अधोलिखितानि सन्ति, तद्यथा- डॉ.हेमचन्द्र बेलवाल- डॉ. प्रकाशपन्त-डॉ.निरञ्जन मिश्र-डॉ.रामविनय सिंह-डॉ.राधेश्यामगंगवार-  डॉ.राहुल पोखरियाल-डॉ.कीर्तिवल्लभशक्टा-डॉ.जगदीशप्रसादसेमवाल-डॉ.बालकृष्णभट्ट-डॉ.जीतरामभट्ट-प्रो.बनमाली बिश्वालः इत्यादयश्च। एतेषु रचनाकारेषु केचन बाल्यकाले अस्मिन् उत्तराखण्डस्य परिवेशे निवासमकुर्वन्,  केचन इदानीं निवसन्ति।

                   रचनाकारः यस्मिन् परिवेशे निवसति, यस्मिन् परिवेशे रचनां करोति, तस्य परिवेशस्य, तत्रत्य-आञ्चलिकतायाः प्रभावेण प्रभावितो भवति। तस्य प्रभावकारणात् एव तस्य रचनासु स्थानीयसंस्कृतेः दर्शनं स्थाने-स्थाने  भवति। यतो हि आञ्चलिकतायां स्थानीयसंस्कृतिः(भाषा, वेशभूषा,उत्सवाः,खाद्यम्,पेयम्) समाविष्टा भवति। अत एव “उत्तराखण्डीय-समकालिन-संस्कृत-साहित्ये आञ्चलिकतायाः प्रभावः” इत्यभिधेयेऽस्मिन् शोधपत्रे मया उत्तराखण्डस्य समकालिक-संस्कृतरचनाकाराणां रचनासु कुत्र कुत्र आञ्चलिकतायाः प्रभावो दृश्यते, तत्प्रदर्शयितुं  प्रयासो विधीयते ।       

                     उत्तराखण्डस्य समकालिन-संस्कृत-रचनाकारेषु सुप्रसिद्धः डॉ. प्रकाशचन्द्रपन्तः संस्कृतसेवापरायणः युवकविः विश्वसंस्कृतजगति कूर्माञ्चलस्य प्रतिनिधित्वं करोति। अनेन कविना एकः अनूदितः ग्रन्थः रचितः ‘कूर्माञ्चलीय-लोककथा’ इति नामाभिधेयः । अनूदितेऽस्मिन् ग्रन्थे कलबिष्टःनाम्नः’ पाठः अस्ति। तस्मिन् पाठे कविना उत्तराखण्डीयबिष्टजातेः उल्लेखः कृतः पात्रस्य नामावसरे। पात्रस्य सम्पूर्ण नाम ‘कल्याणसिंह बिष्टः’ वर्तते। इयं ‘बिष्ट’ जातिः उत्तराखण्डस्थक्षत्रियवर्गस्य अस्ति। अत्रत्य क्षत्रियाः सिंहादीनां शब्दानां प्रयोगमपि स्वनाम्ना सह कुर्वन्ति। अस्य कल्याणसिंहस्य वीरताप्रसङ्गसमये कविना वर्णितं यत् सः प्रतिदिनं वनात् ईन्धनं आनयति स्म। यतो हि उत्तराखण्डे ग्रामीणाः अद्यावधिपर्यन्तमपि ईन्धनमाध्यमेन भोजनं पचन्ति। तस्य भोजनस्य सुस्वादः विशिष्टः एव भवति ।अस्मिन्नेव अनूदिते ग्रन्थे कल्याणसिहंस्य परीक्षावसरे गुरु- गोरखनाथस्यापि वर्णनं प्राप्यते। सम्प्रति अयं कल्याणसिहः विभिन्ननामभिः ख्यातोऽस्ति। डॉ.प्रकाशचन्द्रपन्तः कल्याणसिंहस्य ख्यातिम् इत्थं प्रतिपादयति स्वीये अनूदिते काव्ये, तद्यथा- गुरुगोरखनाथः तं स्वशिष्यं कृतवान् सः एव कल्याणसिंहबिष्टः अद्य अपि ‘कलविष्टः’, ‘कलुवा’ वीरः, इत्यादिभिः नामभिः कुमाऊंमण्डले देवरूपेण पूज्यते”।

                         अस्मिन्नेव अनूदिते ग्रन्थे ‘ग्वल्लो देवता’ इति नाम्नी एका लोककथा अपि अस्ति। कथायाम् अस्यां कुमाऊंमण्डलस्य स्थानीय-ग्वल्ल-देवस्य जन्मनः कथा वर्णिता अस्ति। न्यायदेवतारूपेण वर्णनमपि च प्राप्यते, तद्यथा- यदा राजा वृद्धः बभूव, तदा ग्वल्लः चम्पावतस्य राजा अजायत। सकलकुमाउंमण्डले तदीयं शासनम् आसीत्। ग्वल्लः न्यायप्रियराजरूपेण मन्यते। अद्यापि सम्पूर्णे कुमाउंमण्डले न्यायदेवतारूपेण सः पूज्यते। यदि कश्चिद् केनापि सह अन्यायं करोति तर्हि सः न्यायस्य आशया ग्वल्लदेवस्य मन्दिरे प्रार्थनापत्रं स्थापयति।’                                                        

           अस्मिन्नेव कूर्माचलीयलोककथाः इत्यभिधे अनूदिते ग्रन्थे रक्ता सूकरी नामाभिधेया एका लोककथा वर्तते। कथायाः अस्याः प्रारम्भे एव प्रसङ्गानुसारं रचनाकारः सावा इत्यभिधेय-पर्वतीय-अन्नविशेषस्य वर्णनं करोति, तद्यथा- कस्मिश्चित् ग्रामे काचित् विधवा स्त्री स्व सप्तभिः पुत्रैः सह न्यवसत्। तस्याः एकैव पुत्री आसीत्, या विवाहिता आसीत्। तया स्व कृषिक्षेत्रेषु सावा(पर्वतीय-क्षेत्रस्य अन्नविशेषम्) वपितम् आसीत्। कृषि सस्यानि उत्तमानि आसन्। यदा तदन्नं पक्वं जातं तदा सा सावां कर्तितुं क्षेत्रमगच्छत्।

                      डॉ.राहुलपोखरियालः उत्तराखण्डस्य नवोदितकविः वर्तते। अनेनापि उत्तराखण्डमण्डनम् इत्यस्मिन् स्वशतककाव्ये चेतईस्थितं गोलुदेवस्य वर्णनं कृतमस्ति,   तद्यथा-

               नयो जीवने भातु शीघ्रं त्वदीये

              चितेईस्थितं गोलुदेवं नम त्वम्।

              स्वपत्रे स्वदुःखं लिखित्वाऽर्पय त्वं

              मदीयोत्तराखण्डराज्यं चल त्वं ।।16।।(उत्त0म0)

डॉ.हेमचन्द्रबेलवालोऽपि स्वीये देवभूमिग्रामशतके इत्यभिधे काव्ये उत्तराखण्डीयग्रामीणपरिवेशं वर्णयति। तत्रैव एकस्मिन् पद्ये कोद्रवस्य(मंडुआ) रोटिकायाः वर्णनावसरे सः लिखति, तद्यथा-

ग्रामीणेन तु कोद्रवस्य मधुरा या निर्मिता रोटिकाः

खादित्वा खलु तास्तु जीवनमिदं धन्यं भवेन्निश्चितम्।

शाकं सर्षपनिर्मितं च यदि वै साकं भवेत्खादितुं

नूनं सार्थकता तदात्र धरणौ स्याज्जन्मनः किं पुनः।।09॥

                                                                    (देव0ग्रा0)

डॉ.कीर्तिवल्लभशक्टाद्वारा पं0 ताराकरस्मृतिमालायाम् विरचिते ‘स्तवनस्तवकम्’ इत्यभिधे स्तोत्रकाव्ये तु उत्तराखण्डस्थ-विभिन्नानां देव्याः सीद्धपीठानां, पिथौरागढे स्थित-महाकाल्याः, चम्पावते स्थित-शिलादेव्याः, क्रान्तीश्वरमहादेवस्य, मानसेश्वरस्य, नागार्जुननागनाथस्य, ऋषीश्वरमहादेवस्य, तारकेश्वरस्य, लधूनधुरामहादेवस्य, सहस्त्रलिङ्गेश्वरस्य, गोलज्यूदेवस्य, कालिसिनदेवस्य, लटेश्वर- महादेवस्य च इत्यादीनां स्थानीयदेवानां स्तुतयः कृताः सन्ति। उदाहरणार्थं नागार्जुन-नागनाथस्य स्तुतिः, तद्यथा-

यो दीप्तः वसते सदा प्रमुदितः श्रीनागनाथान्तिके,

पूज्यः सर्वजनैः प्रमोद-सहितैः भावैः प्रसन्नाननैः।

सिद्धैः सेवित यस्य पादयुगलं शुभैर्जलैः नित्यशः,

देवो नः विदधातु वाञ्छिफलं दिव्यं हि नागार्जुनः॥(स्तवनस्त0)

उत्तराखण्डस्य आञ्चलिकतायाः प्रभावेण संस्कृतरचनाकारः प्रो.बनमाली बिश्वालः तादृशः प्रभावितोऽस्ति यत् सः उत्तराखण्डस्य सुप्रसिद्धायाः डोलियात्रायाः वर्णनं केदारायणम् इत्यभिधे स्वीये यात्रावृत्तात्मके खण्डकाव्ये इत्थम् अकरोत्, तद्यथा-       

उत्तराखण्ड-देवानां समेषाञ्च विशेषतः।                 विशिष्टावसरेष्वेव डोलियात्रा प्रवर्तते॥55॥

केदार-डोलियात्रा च कैलासं प्रति प्रस्थितः।

भक्ताः सोत्साहमेवात्र भागं गृह्णन्ति सर्वदा॥552॥

          एतदपि आञ्चलिकतायाः प्रभाव एव वर्तते यत् प्रो.बनमालि-बिश्वालस्य केदारायणम् इत्यभिधे यात्रावृत्तात्मके खण्डकाव्ये, उत्तराखण्डस्य खाद्यपेयवस्तूनां यानि नामानि स्थानीयभाषायां(आञ्चलिकभाषायां) सन्ति, तानि तस्मिन्नेव स्वरूपे स्वीकृतानि सन्ति , तद्यथा-

सर्वत्र खाद्यपेयानां भवत्येव विशिष्टता।

उत्तराखण्ड-खाद्यानां वैशिष्ट्यमत्र वर्ण्यते।79॥

चैंसू च कापिलू झोई खाद्येष्वेव विशिष्यते।

सिसौंणादि च शाकेषु पीनालू बथुए तथा॥80॥

मण्डुआ रोटिका चात्र गौहोत-दालमेव च।

सिंगौर-बाल-मिष्टान्नं पौष्टिकमभिमन्यते॥81॥

वेशभूषां समारभ्य खाद्यपेय-प्रसङ्गतः।

क्षेत्राणां पर्वतीयानां विशिष्टा लोकसंस्कृतिः॥82॥

 प्रो.बनमालिबिश्वालस्येव ‘बदरीश शतकम्’ इत्यभिधेयलघुकाव्यस्य प्रमुखविषयः बद्रीनाथमन्दिरमस्ति। लघुकाव्येऽस्मिन् प्रस्तावनायां भगवतः बद्रीनाथस्य वर्णनं इत्थं कृतं वर्तते, तद्यथा-

चत्वारि सन्ति धामानि चोत्तराखण्डके शुभे।

गङ्गोत्री यमुनोत्री च बद्री-केदारके तथा॥1॥

तेषु प्रसिद्ध्यति लोके साक्षाद्वदरिकाश्रमः।

तत्रत्य-बद्रीनाथस्य स्मरणे रमतां मनः॥2॥

डॉ.कीर्तिवल्लभशक्टाद्वारा विरचिते रङ्गवीथिः(संस्कृतनाट्यत्रयम्) इत्यभिधे नाट्यसंकलने ग्रन्थे घटोत्कचवनम् इत्यस्य नाटकस्य प्रथमाङ्के प्रस्तावनायां सूत्रधारः चम्पावतजनपदस्य सौन्दर्यविषये एवम्प्रकारेण कथयति, तद्यथा- “आम् भगवतो महादेवस्यातिप्रियभूमिरियं यतो हि तस्य विविधानि मन्दिराणि विराजन्तेऽत्र यथा तारकेश्वरः, क्रान्तीश्वरः, हरेश्वरः, ऋषीश्वरः, मृडेश्वरः, दीप्तेश्वरः, बालीश्वरश्च। कूर्मावतारसमये विष्णोरंशभूतः कूर्मः अत्रैव वर्षत्रयं पादयोः स्थित्वा अस्याः माहात्म्यं वर्धयामास।”

                   एतानि सर्वाणि उपर्युक्तानि उदाहरणानि दृष्ट्वा वक्तुं शक्यते यत् अन्यभाषासाहित्यकाराणाम् इव संस्कृतभाषासाहित्यकाराणां रचनासु अपि आञ्चलिकतायाः प्रभावः विभिन्नरूपेषु द्रष्टुं शक्यते। कुत्रचित् संस्कृतकाव्येषु आञ्चलिकतायाः मुख्यविषयत्वात्, कुत्रचित् स्थानीय-संस्कृतेः(भाषा-लोकपरम्परा-स्थानीयदेव-लोकगीत-इत्यादीनां) वर्णनत्वात्, कुत्रचित् संस्कृतकथाकाव्येषु पात्रचयनावसरे स्थानीयपात्रस्वीकरणत्वात् तथा कुत्रचित् स्थानीयलोकपरम्पराणां लोकगीतानामुल्लेखत्वात् च।

                      

सन्दर्भग्रन्थसूची

1.कूर्माचलीय-लोककथाः-डॉ0 प्रकाशचन्द्रपन्तः‘दीपः’, प्रकाशकः-उत्तराखण्ड  संस्कृत-अकादमी, हरिद्वारम्।

2.उत्तराखण्डमण्डनम्- डॉ0 राहुलपोखरियालः, प्रकाशकः- अर्वाचीनसंस्कृतम्  (पत्रिका) 44/1-45/4(172-179 संयुक्ताङ्कः 2022-23), ISSN 2230-9551                      

3.देवभूमिग्रामशतकम्- डॉ. हेमचन्द्रबेलवालः, प्रकाशकः- एपेक्स बुक्स पब्लिशर्स एवं   डिस्ट्रीब्यूटर्स,    5/21-ए,    विजयनगर,  दिल्ली-110009,      दूरभाषः  07503180700.

4.स्तवनस्तवकम्- डॉ0 कीर्तिवल्लभ शक्टा ‘शाकटायनः’

5.केदारायणम् (पञ्चकेदार-महात्म्यपरकं पञ्चखण्डात्मकं पञ्चशतकोपेतं

   यात्रावृत्तात्मकं   खण्डकाव्यम्)-  प्रो.बनमालिबिश्वालः।

6.बदरीश-शतकम्-प्रो.बनमालिबिश्वालः।

7.रङ्गवीथिः(संस्कृतनाट्यत्रयम्)-डॉ.कीर्तिवल्लभशक्टा ‘शाकटायनः’,प्रकाशकः- डॉ0 कीर्तिवल्लभशक्टा, शारदाज्योतिर्भवनम् निकट-एम.इ.एस.-कैम्प चम्पावत, उत्तराखण्ड, पिन-262523, दूरभाष-0595230256, मुद्रणम्- गणेश प्रिन्टिंग प्रेस कटवारिया सराय, नई दिल्ली-16

शोधलेखकः-डॉ.मधुसूदन सती

दूरभाष सं0-9068429661

Note- उपर्युक्त शोधपत्र ‘वेदाञ्जलि’ षाण्मासिकी शोधपत्रिका, अंक-16, भाग-2, जुलाई-दिसम्बर 2021 में प्रकाशित करवाया गया है जो कि सर्वाधिकार सुरक्षित है।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!