आधुनिक–समाजे गुरुकुलानां प्रासङ्गिकता
(आधुनिक समाज में गुरुकुलों की प्रासंगिकता एवं महत्व)
वयं सर्वे$पि जानीमो यत्प्राचीनकाले विद्यार्थिनो विद्यार्जनाय गुरुकुलं गच्छन्ति स्म। तत्रैव उषित्वा गुरुमुखाद् विद्योपार्जनं कुर्वन्ति स्म। तस्मिन् समये ‘शिक्षक:’ आचार्य:, उपाध्याय:, गुरुश्च इति नामभि: सम्बोध्यते स्म। गुरुकुलानां परम्परा कदा आरम्भा अभवत्, विषयेऽस्मिन् प्रामाणिकरूपेण किमपि वक्तुं न शक्यते, तथापि ‘कृष्णसुदामयोः’ सान्दीपनिगुरुकुले सार्द्धं पठनस्य कथा एतत्तु स्पष्टमेव करोति, यत् परम्परा इयम् अत्यन्ता प्राचीना।
अत्र सर्वप्रथममस्माभिरिदं ज्ञातव्यं यद् ‘गुरुकुल–व्यवस्था’ इत्यनेन क: अभिप्राय:? ‘गुरुकुल–व्यवस्था’ कीदृशी भवति स्म? जिज्ञासाया अस्या: निराकरणे ‘गुरुकुलम्’ नाम गुरो: कुलम्, अर्थात् परिवारो यत्र निवसति स्म, तत्स्थानं ‘गुरुकुलम्’ इति कथ्यते स्म। गुरोः परिवारेणात्र अन्तेवासिनोऽपि (शिष्याः) निर्दिष्टाः सन्ति, यतो हि ते गुरुगृहे निवसन्ति स्म। तत्र निवसन्तस्तै: अनुशासनपूर्वकं विभिन्न-नियमानां पालनमनिवार्यरूपेण करणीयमासीत्। छात्रा: प्रात: ब्रह्ममुहूर्ते गुरो: जागरणात्प्रागेव जागरणं कृत्वा गुरो: चरणस्पर्शपूर्वकम् अभिवादनं कुर्वन्ति स्म। चरणस्पर्शविषये बौधायनधर्मसूत्रे एतल्लिखितं वर्तते, यथा-
दक्षिणं दक्षिणेन सव्यं सत्येन चोपसंगृह्णीयात् दीर्घमायुः स्वर्गं गच्छेत्।
नाऽसीनो नाऽऽसीनाय न शयानो। न शयनाय नाप्रयतो नाप्रयताय॥[1]
(बौधायनधर्मसूत्रम् 1/2/24, 28)
गुरोः अभिवादनात्परं गुरुपत्न्याः अभिवादनस्यापि विशिष्टं महत्वमासीत् गुरुकुलेषु। अभिवादनमिदं “असौ अहम्” इति सम्बोधनेन अन्तेवासी करोति स्म। ‘मनुस्मृतौ’ विषयेऽस्मिन् एवम्प्रकारेणोक्तमस्ति, यथा-
अभिवादात्परं विप्रो ज्यायां समभिवादयन्।
असौ नामाहमस्मीति स्वं नाम परिकीर्तयेत्।।[2]
एवम्प्रकारेण गुरुसान्निध्ये २५ विंशतिवर्षाणि यावद् ब्रह्मचर्यपूर्वकं विविधानि शास्त्राणि पठित्वा अन्तेवासिनो गृहं प्रति आगच्छन्ति स्म। तत एव ते गृहस्थाश्रमे प्रवेशं कुर्वन्ति स्म।
गच्छता कालेन गुरुकुल-व्यवस्थायां विभिन्नानि परिवर्तनानि जातानि। बालक-बालिकानां कृते भिन्न-भिन्न-गुरुकुलानां स्थापना जाता। बालगुरुकुलम्, कन्यागुरुकुलञ्च। प्रामुख्येन भारतीय-शिक्षा-प्रणाल्यां तदा परिवर्तनं जातं, यदा ‘लार्ड मैकाले’ इत्यस्य शिक्षा-नीतिः समागता। अस्याः शिक्षानीतेः प्रभावात् प्रभाविता वर्तते, भारतीया आधुनिकी ‘शिक्षाप्रणाली’। अस्या एव प्रभावाद् आधुनिक-भारतीय-शिक्षाव्यवस्थायां ‘विद्यालयीय-व्यवस्था’ समागता। अस्यां व्यवस्थायां विद्यार्थिन: प्रतिदिनं गृहाद् विद्यालयं गत्वा पठन्ति। विद्यालयस्य कश्चन निश्चित: पाठ्यक्रमो भवति, शिक्षका: तदनुसारेण पाठयन्ति।
आधुनिके समाजे गुरुकुलानां प्रासङ्गिकतां स्पष्टयितुं गुरुकुल-व्यवस्थाया: गुणाः अवश्यमेव विवेचनीया:। गुरुकुल-व्यवस्थाया: अधोलिखिता गुणाः सन्ति-
(1).अनुशासनस्य पालनम्—आधुनिकशिक्षाव्यवस्थायाः अपेक्षया गुरुकुलव्यवस्थायां छात्रस्योपरिः गुरोः सर्वाधिकः प्रभावो भवति, यतो हि शिष्यः अहर्निशं गुरोः सान्निध्ये निवसति। गुरुः यथा आचरति तथैव शिष्याः अनुकुर्वन्ति। यदुक्तमप्यस्ति श्रीमद्भगवद्गीतायाम् अनुकरणविषये-
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जन:।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते।।21॥[3]
(Whatever a great man does, the same is done by others as well. Whatever standards does he set, the same is followed by the world.)
तैत्तरीय-उपनिषदि (एकादशे-अनुवाके) शिक्षावल्यामेतद्वर्णनमस्ति, यद् आचार्यो गुरुकुले वेदं पाठयित्वा सर्वादौ छात्राय अनुशासनस्य शिक्षां ददाति स्म, यथा-
“वेदमनूच्याचार्यो$न्तेवासिनमनुशास्ति। सत्यं वद। धर्मं चर। स्वाध्यायान्मा प्रमदः। आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः। सत्यान्न प्रमदितव्यम्। धर्मान्न प्रमदितव्यम्। कुशलान्न प्रमदितव्यम्। भूत्यै न प्रमदितव्यम्। स्वाध्याय-प्रवचनाभ्यां न प्रमदितव्यम्। देवपितृकार्याभ्यां न प्रमदितव्यम्”[4]
(2). श्रद्धाभावनाया विकास:– प्राचीनकाले यदा शिष्याः गुरुकुले निवसन्ति स्म, तदा तेषु श्रद्धाभावनायाः उदात्तरूपेण विकासो भवति स्म। यतो हि शिष्याः प्रतिदिनं प्रातः उत्थाय श्रद्धापूर्वकं गुरोः चरणस्पर्शं कृत्वा अन्येषां ज्येष्ठानाम् अभिवादनमपि कुर्वन्ति स्म। तद्दृष्ट्वा कनिष्ठाः शिष्याः अस्याः परम्परायाः पालनं कुर्वन्ति स्म, यतो हि अभिवादनशीलानां शिष्यानां चत्वारि वर्द्धन्ते इति ‘मनुस्मृतौ’ अपि उक्तमस्ति, तद्यथा-
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः।
चत्वारि तस्य वर्द्धन्ते आयुर्विद्या यशो बलम्॥[5]
श्रद्धावन्तः शिष्या एव ज्ञानस्य योग्यपात्राः भवन्ति स्म। ते श्रद्धापूर्वकं गुरूणां सपर्यया विविधानां शास्त्राणां ज्ञानं प्राप्नुवन्ति स्म। श्रीमद्भगवद्गीतायामपि विषयेऽस्मिन् इदमुक्तमस्ति, यथा-
श्रद्धावॉल्लभते ज्ञानं तत्परः संयतेन्द्रियः।
ज्ञानं लब्ध्वा परां शान्तिम् अचिरेणाधिगच्छति॥39॥[6]
(3).शिक्षायाः समानावसरः– गुरुकुलेषु राज्ञः पुत्रः सामान्यजनस्य पुत्रश्च सार्द्धमेव पठतः स्म। द्वयोः कृते समानाः नियमाः, शिक्षायाः समानावसराश्चासन्। गुरुरपि समानरूपेण शिक्षां प्रददाति स्म। किन्तु सम्प्रति तु शिक्षायां भेदभावः परिलक्ष्यते, यथा-धनिकानां बालक-बालिकानां कृते भिन्नाः विद्यालयाः(व्यक्तिगत-विद्यालयाः) निर्धनबालक-बालिकानां कृते सर्वकारीय-विद्यालयाः। अनेन प्रतिभावतां बालानां कृते सम्प्रति शिक्षायां तावन्तः समानावसराः न सन्ति।
(4) सामूहिक–जीवने सामञ्जस्य स्थापनम्–गुरुकुले अन्तेवासिनः सामूहिकरूपेण निवसन्ति स्म। तत्र प्रातः कालादारभ्य सायं कालं यावत् गुरुमार्गदर्शने ते विविधानि कर्माणि कुर्वन्ति स्म। व्यक्तिगतामिच्छां परित्यज्य, ते सामूहिकरूपेण भोजने, जागरणे, शयने च गुरुकुल-नियमानां पालनं कुर्वन्ति स्म। एतत्सामूहिक-जीवनदर्शनमेव प्रतिपादयति ‘ऋग्वेदस्य’ दशममण्डलस्य अयं मन्त्रः-
संगच्छध्वं संवदध्वं सं वो मनांसि जानताम्।
देवा भागं यथा पूर्वे, सञ्जानाना उपासते॥[7]
(हिन्द्यर्थः- आप सब एक साथ चलें, एक साथ बोलें, आप सबके मन एक हों जैसे प्राचीन देवता मिल-जुलकर यज्ञ करते थे)
एवमेव अन्योऽपि मन्त्रः दर्शनमिदं प्रतिपादयति-
ॐ सह नाववतु। सह नौ भुनक्तु। सह वीर्यं करवावहै।
तेजस्विनावधीतमस्तु। मा विद्विषावहै। ॐ शान्ति: शान्ति: शान्ति:।।[8]
(अर्थ : हे ईश्वर! आप हम दोनों (गुरु और शिष्य) की साथ-साथ रक्षा करें , हम दोनों का साथ-साथ पालन-पोषण करें, हम दोनों साथ-साथ मिलकर ऊर्जा से कार्य करें, हमारे द्वारा प्राप्त की गई विद्या तेजप्रद हो, हम परस्पर द्वेष न करें अर्थात् प्रेमपूर्वक रहें। ओम् शान्ति, शान्ति, शान्ति)
(5).मानसिक-एकाग्रता– प्राचीनकालेऽन्तेवासिनो गुरुकुले आवश्यक-संसाधनैस्सह निवसन्ति स्म। आधुनिक-कालवत् तत्र विभिन्न-मनोरञ्जन-संसाधानि नासन्। छात्राणां मनोरञ्जनाय तादृश्यः गतिविधयः आयोज्यन्ते स्म, यासां माध्यमेन तेषां मानसिक- शारीरिक-विकासो भवति स्म। छात्राः ब्रह्मचर्यपूर्वकं प्रतिदिनं योगस्यानुसरणं कुर्वन्ति स्म, येन तेषां मानसिक-एकाग्रतायाम् अभिवृद्धिर्भवति स्म। महर्षि-पतञ्जलेः अनुसारं चित्तवृत्तीनां निरोधः योगः कथ्यते, तद्यथा-
‘योगश्चित्तवृत्तिनिरोधः’[9]
चित्तवृत्तीनां निरोधः अभ्यासवैराग्यां कर्तुं शक्यते, यथा-
“अभ्यासवैराग्याभ्यां तन्निरोधः”[10]
“तत्र स्थितौ यत्नोऽभ्यासः”[11]
उपर्युक्तानि सूत्राणि छात्राणां मानसिक-एकाग्रतायै अत्यन्त-महत्वपूर्णानि आसन्। इदानीमपि एतेषां सूत्राणां पालनं यैः छात्रैः क्रियते, तेषां मानसिक-एकाग्रता अत्यन्ता विकसिता भवितुं शक्यते।
(6).कर्तव्यपरायणता आत्मनिर्भरता च- गुरुकुलेषु छात्राणां पारिवारिक-जना न भवन्ति स्म, यथा- माता, पिता, भ्राता, भगिनी च। अत एव स्वकार्याणि तैः स्वयमेव सम्पादनीयानि आसन्, यथा- वस्त्राणां प्रक्षालनम्, भोजनस्य निर्माणम्, स्वच्छीकरणम्, गोदोहनम्, भिक्षाटनञ्चेत्यादीनि। स्वकार्याणि सम्पादयित्वा तेषु न केवलं कर्तव्यपरायणतायाः विकासो भवति स्म, अपितु आत्मनिर्भरतायामपि ते समर्थाः भवन्ति स्म। यस्मात्कारणात् प्राप्तविषमपरिस्थितौ अपि ते विचलिताः न भवन्ति स्म। तदपेक्षया सम्प्रति ये छात्राः गृहात् प्रतिदिनं विद्यालयं गच्छन्ति, तेषां कृते आत्मनिर्भरतायाः विकासाय न्यूनाः अवसरा भवन्ति, यतो हि तेषां बहूनि कार्याणि पारिवारिक-जना एव कुर्वन्ति।
(7). व्यक्तित्व–विकासश्चारित्र्यनिर्माणञ्च– गुरुकुलेषु निवसन्तोऽन्तेवासिनो ब्रह्मचर्यपालनं कुर्वन्ति स्म। तस्मान्न केवलं तेषां चरित्रस्य संरक्षणम्, अपितु व्यक्तित्वस्य विकासोऽपि भवति स्म। ब्रह्मचर्यस्य को लाभो वर्तते, विषयेऽस्मिन् योगसूत्रे इदमुक्तमस्ति- “ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः”[12] अर्थात् ब्रह्मचर्यस्य प्रतिष्ठायां वीर्यस्य(आत्मिकशक्तेः) लाभो भवति। आत्मिकशक्तेः लाभेन विद्यार्थिषु बहूनां सकारात्मकगुणानां विकासः स्वभाविकरूपेण भवति स्म, यथा-
काकचेष्टा बको ध्यानं श्वाननिद्रा तथैव च।
अल्पाहारी गृहत्यागी विद्यार्थी पञ्चलक्षणम्।।[13]
एवमेवान्येऽपि गुणाः सन्ति गुरुकुलव्यवस्थायाः,यथा-
(क).सत्यस्य पालनम्, (ख).ब्रह्मचर्यस्य पालनम्
(ग).कर्मपरायणता (घ).नैतिकमूल्यानां विकासः
राष्ट्रिय-शिक्षानीतिः 2020
आधुनिक-समाजे गुरुकुलानां प्रासङ्गिकतायै राष्ट्रियशिक्षानीतेः(2020) मूलभूतसिद्धान्ताः अवश्यमेव अवलोकनीयाः। मूलभूतसिद्धान्तेषु केचन सिद्धान्ताः अधोलिखिताः सन्ति, तद्यथा-
(क).नैतिकता, मानवीय और संवैधानिक मूल्य जैसे, सहानुभूति, दूसरों के लिए सम्मान, स्वच्छता, शिष्टाचार, लोकतांत्रिक भावना, सेवा की भावना, सार्वजनिक-सम्पत्ति के लिए सम्मान, वैज्ञानिक चिंतन, स्वतंत्रता, जिम्मेदारी, बहुलतावाद, समानता और न्याय।[14]
(संस्कृतानुवादः- नैतिकता, मानवीयमूल्यं संवैधानिकमूल्यञ्च यथा-सहानुभूतिः, अपरेषां कृते आदरभावः, स्वच्छता, शिष्टाचारः, लोकतान्त्रिक-भावना, सेवायाः भावना, सार्वजनिक-सम्पत्तेः सम्मानम्, वैज्ञानिक-चिन्तनम्, स्वतन्त्रता, दायित्वम्, बाहुल्यवादः, साम्यं न्यायश्च)
(ख).बहु-भाषिकता और अध्ययन-अध्यापन के कार्य में भाषा की शक्ति को प्रोत्साहन।[15]
(संस्कृतानुवादः-बहुभाषिकता, अध्ययनाध्यापन-कार्ययोः भाषाशक्त्यै प्रोत्साहनम्)
(ग).जीवन कौशल जैसे, आपसी संवाद, सहयोग, सामूहिक कार्य और लचीलापन।[16]
(संस्कृतानुवादः-जीवनकौशलम्, यथा-परस्पर-संवादः, सहयोगः, सामूहिक-कार्यम्, सरलता च)
एवम्प्रकारेण गुरुकुल-प्रणाल्या: गुणान् विवेच्य राष्ट्रियशिक्षानीतेः (2020) मूलभूतसिद्धान् अवलोक्य च निष्कर्षत इति वक्तुं शक्यते, यद् गुरुकुलानां महत्वमधुना$पि वर्तते, केवलम् आवश्यकता वर्तते गुरुकुलानां स्वरूपे परिवर्तनस्य। सम्प्रति तादृशानां गुरुकुलानाम् आवश्यकता वर्तते, येषु नैतिक-मूल्याधारित-शिक्षया सह व्यावसायिक-शिक्षाया:, आधुनिक-युगाय उपयोगिन्या: प्रविधे: शिक्षायाश्च व्यवस्था$पि भवेत्। छात्रा: न केवलं शास्त्राणां ज्ञानं प्राप्नुयुः, अपितु विभिन्न-आधुनिक-कौशलेष्वपि निपुणाः स्युः।
सन्दर्भग्रन्थसूची
1.भारतीया पुरातनी शिक्षा, प्रो० लोकमान्य मिश्र:, प्रकाशनम्-मृगाक्षीप्रकाशनम्, लखनऊ, पृष्ठसंख्या -16
2.Shreemad Bhagawad Geetaa (Sanskrit Text, Romanization& English Meaning), Richa Prakashan. Chapter-3, Page no-75
3.सम्पूर्ण मनुस्मृति(मूल श्लोक और भाषानुवाद सहित), अनुवादकः-गोविन्द सिंहः, संस्करणम्-2013, प्रकाशकः-न्यू साधना पॉकेट बुक्स,70, रोशनआरा प्लाजा, रोशनआरा रोड, दिल्ली-110007,
4.भास्वती द्वितीयो भागः, प्रकाशकः-राष्ट्रिय-शैक्षिक-अनुसंधान-प्रशिक्षण-परिषद्, नई दिल्ली
https://jyotishdhyan.blogspot.com/2019/12/blog-post_31.html
6.कठोपनिषद्(सानुवाद शाङ्करभाष्य सहित), मुद्रकः प्रकाशकश्च-घनश्यामदास जालानः, ग्रीताप्रेसः, गोरखपुरम्, संस्करणम्-षष्ठ, वर्षम्-2008
7.योगदर्शनम्-महर्षिः पतञ्जलिः, सम्पादकः-आचार्यः उदयवीर शास्त्री, प्रकाशकः-विजयकुमार गोविन्दराम हासानन्दः, दिल्ली, भारतम्, संस्करणवर्षम्-2011, दूरभाषः-23977216
https://hi.quora.com
स्रोत-
[1] भारतीया पुरातनी शिक्षा, प्रो० लोकमान्य मिश्र:,पृष्ठ संख्या -16
[2] मनुस्मृतिः, द्वितीयोऽध्यायः, श्लोकसंख्या-122
[3] Shreemad Bhagawad Geetaa (Sanskrit Text, Romanization& English Meaning), Richa Prakashan. Chapter-3, Page no-75
[4] भास्वती, द्वितीयो भागः, प्रथमः पाठः, अनुशासनम्, पृ.सं-3
[5] मनुस्मृतिः, द्वितीयोऽध्यायः, श्लोकसंख्या-121
[6] श्रीमद्भगवद्गीता, चतुर्थोऽध्यायः, श्लोकसंख्या-39
[7]ऋग्वेदः, दशमः मण्डलः, सूक्तसंख्या-191
[8] कठोपनिषद्, द्वितीयोऽध्यायः, तृतीया वल्ली, मन्त्र-19
[9] योगदर्शनम्, समाधिपादः, द्वितीयसूत्रम्
[10] योगदर्शनम्, समाधिपादः, सूत्रसंख्या-12
[11] योगदर्शनम्, समाधिपादः, सूत्रसंख्या-13
[12] योगदर्शनम्, साधनपादः, सूत्रसंख्या-38, पृ.सं-205
[13] चाणक्यनीतिः, आचार्य-चाणक्यः, note- गूगल एवं कही जगह इस श्लोक को चाणक्यनीति के 11 अध्याय का बतलाया गया है जबकि चाणक्यनीति में यह श्लोक उपलब्ध ही नही है।
[14] राष्ट्रीय शिक्षा नीति 2020(मानव संसाधन विकास मंत्रालय भारत सरकार), शिक्षा नीति के आर्यधार सिद्धांत, पृ.सं-7
[15] राष्ट्रीय शिक्षा नीति 2020(मानव संसाधन विकास मंत्रालय भारत सरकार), शिक्षा नीति के आधार सिद्धांत, पृ.सं-7
[16] राष्ट्रीय शिक्षा नीति 2020(मानव संसाधन विकास मंत्रालय भारत सरकार), शिक्षा नीति के आधार सिद्धांत, पृ.सं-7
शोधलेखक- डॉ.मधुसूदन सती, प्रवक्ता (संस्कृत)
विभाग- शिक्षा विभाग
दूरभाष सं-9068429661
n0te-उपर्युक्त शोधलेख ‘केन्द्रीय संस्कृत विश्वविद्यालय श्री रघुनाथकीर्तिपरिसर में’ आयोजित ‘शास्त्राधारित-शिक्षापरम्परायाः संरक्षणाय गुरुकुलप्रणाल्याः पुनरुत्थानस्य आवश्यकताः राष्ट्रिय-शिक्षानीतिः 2020 इत्यस्य सन्दर्भे’ ‘द्विदिवसीया राष्ट्रीयसङ्गोष्ठी(9-10 अगस्त 2025) के अवसर पर प्रस्तुत किया गया है। प्रस्तुत सत्र में डॉ.शैलेन्द्र नारायण कोटियाल, डॉ.गणेश्वर नाथ झा, डॉ.नौनिहाल गौतम, डॉ.सच्चिदानंद स्नेही आदि विद्वान उपस्थित रहे। उपर्युक्त शोधलेख सर्वाधिकार सुरक्षित है-