‘समकालिक-संस्कृत-रचना-प्रवृत्तयः तद्वैशिष्ट्यं च’          

 

‘समकालिक-संस्कृत-रचना-प्रवृत्तयः तद्वैशिष्ट्यं च’

                      संस्कृतभाषायां साहित्य-लेखनस्येयमजस्र-परम्परा प्राचीकालादेव निर्बाधतया प्रवर्तमाना वर्तते। भाषायामस्यां विविध-प्रकारकं साहित्यं लिखितं वर्तते। साहित्यं समाजस्य दर्पणो भवति। अर्थात् साहित्ये समाजस्य प्रभावो निश्चयरूपेण एव भवति। अत एव समयानुगुणं साहित्ये नूतनाः अभिव्यक्तयो भवन्ति, तथा साहित्यं परस्परं भिन्नतामाप्नोति। यथा- कालिदासस्य पूर्ववर्ति-साहित्यिक-धारा तथा उत्तरवर्ति-साहित्यिक-धारा परस्परं विलक्षणा वर्तते। अत एव गच्छता कालेन साहित्ये जायमानं परिवर्तनं स्वाभाविकम् इति। एवम्प्रकारेण आधुनिक-संस्कृत-साहित्यिक-धारायां यदि वैलक्षण्यं दृष्टिपथमायाति तर्हि नास्ति किमप्यस्वाभाविकम्। यतो हि साम्प्रतिके कालेऽस्मिन् प्रौद्योगिकी-भूमण्डलीकरण-भोगवादितायाः युगे मानवस्य जीवनशैली सामाजिक-स्थितिश्च निरन्तरं परिवर्तमाने स्तः। आधुनिके भोगवादितापरिपूर्णे युगेऽस्मिन् सर्वत्र वैषम्यं परिलक्ष्यते, गृहे, परिवेशे, समाजे, राष्ट्रे च। केचन धनधान्यसमृद्धिपरिपूर्णाः, केचन अभावग्रस्ताः, बुभुक्षिताः च। एषा वैषम्यपरिपूर्णा सामाजिकस्थितिः भर्तृहरिणाऽपि सूक्तिमाध्यमेन इत्थं प्रतिपादिता, तद्यथा-                                                      

        क्वचिद् भूमौ शय्या, क्वचिदपि च पर्यङ्कशयनम्

        क्वचिच्छाकाहारः, क्वचिदपि च शाल्योदनरुचिः।

        क्वचित्कन्थाधारी, क्वचिदपि च दिव्याम्बरधरो

        न जाने संसारः किममृतमयः किं विषमयः॥[1]

       पापाचारणं सर्वत्र परिलक्ष्यते। केचन संसाधनसम्पन्नाः अपि अधिकधनोपार्जनलोभेन पापाचरणे संलिप्ताः। पक्षान्तरे केचन बुभुक्षिताः  बुभुक्षाकारणेन  पापं कर्तुं विवशाः। भ्रष्टाचारः, दुराचारः, भ्रूणहत्या, लिङ्गभेदः, निर्धनता, आतङ्कवादः, शोषणम्, जातिवादः, दलितोत्पीडनम्, यौतुकप्रथा, महामारी(कोरोना), बेरोजगारी  च इत्यादयः समस्याः आधुनिके भौतिकवादितायाः युगेऽस्मिन् समाजे व्याप्ताः सन्ति। एतादृशानां समस्यानां प्रतिपादनमेव महत्त्वपूर्णं कर्तव्यं साहित्यकाराणाम्। संस्कृतसाहित्यकाराः अपि स्वीयकर्तव्यं निर्वहन्तः एतादृशानां समस्यानां कृते स्वीये साहित्ये स्थानं कल्पयन्ति। एतादृश्यः समस्याः एव प्रमुखाः वर्ण्यविषयाः समकालिक-संस्कृतसाहित्यस्य। इयमेव समकालिक-संस्कृतसाहित्यस्य पृष्ठभूमिः।

       वैदेशिक-साहित्यप्रभावकारणात् क्षेत्रीय-साहित्य-प्रभावकारणाच्च काव्यशैलीदृष्ट्या विषयदृष्ट्या च विभिन्नानां वैचित्र्यानां समकालिकसंस्कृत-साहित्यस्य रचनासु समावेशो जायते। तानि वैचित्र्यान्येव वयं संस्कृत-साहित्यस्य समकालिक-रचना-प्रवृत्तयः इति नाम्ना सम्बोधयितुं शक्नुमः।

       संस्कृतक्षेत्रे आरम्भत एव संस्कृतस्य सुप्रसिद्धैः कविभिः व्यास-भास-कालिदास-बाणभट्टादिभिस्सह लेखनप्रवृत्तिषु समकक्षतां प्राप्तुं अभिनवव्यासः, अभिनव-भासः, अभिनवकालिदासः च इत्यादिभिः उपाधिभिः स्वां प्रतिष्ठापयितुं परम्परा आसीत्। किन्तु उत्तरोत्तरमाधुनिक-संस्कृत-रचनाकारैः समकालिक-रचनाकारैश्च नैवेयं परम्परा पालिता पाल्यते वा। आधुनिक-रचनाकारैः एतां प्राचीन-परम्परां परित्यज्य स्वरचनाकौशलेन स्वीयं लेखनं प्रतिष्ठापयितुं रुचिः प्रदर्शिता। यथा-नवदशशताब्द्याः प्रारम्भिक-काले लिखितं साहित्यं परित्यज्य अन्यत् सर्वमपि साहित्यं प्रायशः राष्ट्रिय-भावनया परिपूर्णमासीत्। यतो हि तस्मिने काले राष्ट्रम् आङ्ग्लेभ्यः स्वतन्त्रं कर्तुं बहूनि जनान्दोलनान्यपि जातानि। अत एव तेषां राष्ट्रिय-आन्दोलनानां तत्काले लिखिते संस्कृत-साहित्येऽपि प्रभावो दृश्यते। उदाहरणार्थं श्रीधरपाठकविरचिते ‘भारतस्तवः’ नामके ग्रन्थे, तद्यथा-

       “वन्दे भारतदेशमुदारम्, सुषमासदनसकलसुखसारम्”[2]

       विगतशताब्दीभ्यः अष्टादशशताब्दीं यावत् संस्कृत-कविगणः   चमत्कारपूर्णोपेतया शैल्या स्वाश्रयदातुः राज्ञः स्तुतौ संलग्न आसीत्। किन्तु नवदशशताब्द्याः प्रारम्भिककाले संस्कृत-कवि-गणः राजस्तुति-परक-विषयेभ्यः विमुखी भूत्वा समाजे व्याप्ताः समस्याः प्रति उन्मुखी जातः। तस्य कविगणस्य रचनानां विषयाः प्रामुख्येन सामाजिकाः घटनाः जाताः।  सामाजिकघटनानां प्रतिपादनस्य इयं प्रवृत्तिः समकालिक-उत्तराखण्डसंस्कृत-साहित्यकाराणां साहित्येऽपि द्रष्टुं शक्यते। उदाहरणार्थं डॉ.निरञ्जन-मिश्रद्वारा लिखितं ‘केदारी घाटी विधवा बभूव’ इत्यभिधेयं लघुकाव्यं सुप्रसिद्धमेव समकालिकसंस्कृतसाहित्ये काव्यमिदम् उत्तराखण्डराज्ये जूनमासे(16-17-2013दिनाङ्के) प्रकृतिप्रकोपाज्जातामापदामाश्रित्य लिखितं वर्तते। कालकवलितानां जनानामात्मशान्त्यर्थं श्रद्धाञ्जलिरूपेण समर्पितमिदं लघुकाव्यं लेखकस्य प्रकृत्युन्मुखीं प्रवृत्तिं निर्दिशति। प्रकृत्युन्मुखी प्रवृत्तिः सैव वक्तुं शक्यते, यस्यां विविध-प्राकृतिक-घटनानां वर्णनं साहित्ये क्रियते। उपर्युक्ते लघुकाव्ये डॉ.निरञ्जनमिश्रः केदार-आपदायाः वर्णनम् इत्थं करोति,तद्यथा-

हे देव! तत्र बहवः पतिताः प्रवाहे

शैलाश्मखण्डपतनेन हतास्तथाऽन्ये।

ग्रामाः गताश्च विलयं स्खलनेन भूमेः

कल्लोलिनीकरतलेन गतास्तथाऽन्ये॥30॥[3]

        भूगर्तमध्यपतिताः क्व गता न जाने

        धारा जघास मनुजान् न पशून् गृहांश्च।

        चित्रावशेषभवनान्यभवन् बहूनि

        सिद्धार्थयन्त्रपतिता मनुजा बभूवुः॥31॥[4]

               समकालिक-काव्यानां वर्ण्यविषयेषु भ्रूणहत्या, बलात्कारः, विद्यालयीय-शिक्षा, विदेशभ्रमणं, यात्रा, सांस्कृतिक-पुनर्जागरणञ्चेत्यादयो विषयाः सारल्येनोपलभ्यन्ते।  समकालिक-समस्याः प्रति संस्कृत-रचनाकारः लेखितुं समुत्सुको वर्तते। शैलीगत-शिल्पगत-प्रवृत्तिभ्यां सह विषयवस्तुनि कथ्ये च या नवीनता परिलक्ष्यते सैवाद्य आधुनिक-संस्कृत-साहित्यस्य वैशिष्ट्यं प्रतिपादयत्येव।

समकालिक-संस्कृत-साहित्यकारः स्वीयसाहित्ये स्थानीयसमस्यानां प्रतिपादनेऽपि प्रवृत्तः परिलक्ष्यते। एवमेव उत्तराखण्डस्य शान्तिपूर्णेषु ग्रामेषु सम्प्रति एका नूतनैव समस्या समुद्भूता, यद् अत्र सम्प्रति शनैः शनैः ग्रामेषु वानराणामातङ्को दृश्यते। प्रायः उत्तराखण्ड-राज्यस्य पर्वतीयक्षेत्रात् नगरं प्रति जनानां यत्पलायनं भवति, तस्य कारणेषु इदमपि एकं प्रमुखं कारणम् अस्ति। एतामेव स्थानीयसमस्यां डॉ.हेमचन्द्र बेलवालः  ‘परिवर्तनकाव्यम्’ इत्यभिधे स्वीये काव्यान्तर्गते वानरराज्यशतके कथाशैल्याम् इत्थं प्रतिपादयति,

तद्यथा-अलावुमेकां तु लतागतां तां, शाकाय संरक्षितवान् प्रयत्नैः।    

           स्कन्धे निधायाद्य कपिः प्रयातः,कृषीवलो  याति यथा हली सन्॥[5]

हिन्द्यनुवादः-(मैंने अपने बगीचे की बेल में लगी हुई लौंकी को बहुत मेहनत से बन्दरों से बचाकर रखा था लेकिन आज सुबह-सुबह ही बन्दर उसको तोड़कर कन्धे में रखकर ऐसे ले गया मानो कोई किसान हल को कन्धे में रखकर खेत की ओर जा रहा है।)        

        अन्यभाषासाहित्यकाराणामिव समकालिक-संस्कृतरचनाकारः आञ्चलिकतायाः प्रभावेण प्रभावितोऽस्ति। सः यत्र जन्म लभते, यत्र निवसति, तत्रत्याः स्थानीयसंस्कृतेः, वेषभूषायाः, लोकगीतानां, लोकपर्वणां, लोकव्यञ्जनानां च यथावसरं स्वीयरचनासु वर्णनं कर्तुं प्रवृत्तो दृश्यते। उत्तराखण्डस्य समकालिक-संस्कृत-युव-रचनाकारेषु डॉ.राहुल-पोखरियालः ‘उत्तराखण्डमण्डनम्’ इत्यभिधेयं शतककाव्यमलिखत्। काव्येऽस्मिन् विभिन्नेषु श्लोकेषु उत्तराखण्डस्य आञ्चलिकतायाः प्रभावः द्रष्टुं शक्यते, यत्र विभिन्नानां उत्तराखण्डीयपर्वाणां, भोज्यानां, नृत्यानाञ्च वर्णनमस्ति।  तद्यथा-  

अयं पर्वतीयः  प्रदेशो  विशेषो,

विशिष्टानि पर्वाण्यनेकानि चात्र।

सदा संस्कृतिं सुन्दरीं दर्शनार्थं,

मदीयोत्तराखण्डराज्यं चल त्वम्॥81॥[6]                                                                   

वसन्ते लसन्ति प्रसूनानि नीत्वा,

समे बालका देहलीं पूजयन्ते।                                                              

मनोरञ्जकं फूलदेई विधातुं,

मदीयोत्तराखण्डराज्यं चल त्वम्॥82॥[7]                                            

गृहे सस्यबीजानि लोका वपन्ते,

हरेलोत्सवे श्रावणे पुण्यमासे।

विशिष्टानि भोज्यानि भोक्तुं दिने त्वं,

मदीयोत्तराखण्डराज्यं चल त्वम्॥83॥[8]       

               निष्कर्षरूपेण एतद् वक्तुं शक्यते यत् समकालिक-संस्कृतसाहित्यं समस्याप्रधानमस्ति, यस्मिन् विभिन्नानां सामाजिकसमस्यानां, घटनानाञ्च साहित्यिकशैल्यां पाठकानां   समक्षम् उपस्थापनं क्रियते। सम्प्रति विभिन्नानां नूतनानां विधानां जन्माप्यभूत्। यासु विधासु संस्कृतसाहित्यकारैः रचनाः क्रियन्ते। समकालिकसंस्कृतसाहित्ये छन्दोमुक्तरचनानामपि महत्त्वपूर्णं स्थानमस्ति, यत्र संस्कृतरचनाकारस्य दृष्टिः छन्दोबन्धने न भवति। अपितु अन्तः-करण-भावावेशेन लेखने प्रवृत्ता भवति। पाठकावबोधनदृष्ट्या समकालिकसंस्कृतरचनासु समकालिकसंस्कृतरचनाकारैः प्रायः भाषायाः सरलं स्वरूपं अङ्गीक्रियते। समकालिक-संस्कृतरचनासु भाषायाम् अल्पसमासोपेता शैली परिलक्ष्यते। विभिन्नासु रचनासु वैदेशिक-छन्दसां प्रयोगोऽपि द्रष्टुं शक्यते। अन्यभाषाशब्दस्वीकरणस्य प्रवृत्तिरपि सम्प्रति संस्कृतरचनानां प्रमुखं वैशिष्ट्यमस्ति। विभिन्नदेशभक्तिगीतानि विरच्य राष्ट्रं प्रति स्वकीयां राष्ट्रीयभावनाम् अभिव्यक्तुमपि समकालिकसंस्कृतरचनाकारः प्रवृत्तो दृश्यते, इति।                                                                  

                                   सन्दर्भग्रन्थसूचीः

1.उत्तराखण्डमण्डनम्- डॉ. राहुलः पोखरियालः, प्रकाशकः-अर्वाचीनसंस्कृतम्(संयुक्ताङ्कः), प्रकाशन-वर्षम्-2022-23.

2.परिवर्तनकाव्यम्-डॉ. हेमचन्द्रः बेलवालः, प्रकाशकः-भूमिका प्रकाशनम्, अल्मोड़ा उत्तराखण्डः, प्रकाशनवर्षम्-2015

3.केदारघाटी विधवा बभूव-डॉ. निरञ्जन मिश्रः, प्रकाशकः-प्रगतिशीलप्रकाशनम्, नई दिल्ली, प्रकाशन-वर्षम्-2014.

4.संस्कृतवाङ्मय का बृहद् इतिहास(सप्तम-खण्डः)-डॉ. जगन्नाथ पाठकः, प्रकाशकः-उत्तरप्रदेशसंस्कृतसंस्थानं, लखनऊ, प्रकाशनवर्षम्-2000.

5.समकालिक संस्कृत साहित्य की नवीन प्रवृत्तियां- प्रो.बनमाली बिश्वालः, प्रकाशकः-कविकुलगुरुकालिदास-संस्कृत-विश्वविद्यालयः, महाराष्ट्रम्, प्रकाशनवर्षम्-2020

6.संस्कृत साहित्य का इतिहास- आचार्यः बलदेव-उपाध्यायः, प्रकाशकः-शारदानिकेतनं, वाराणसी, प्रकाशनवर्षम्-2001

                                                                स्रोतग्रन्थाः

[1] समकालिक संस्कृत साहित्य की नवीन प्रवृत्तियां (पृ.सं-50)

[2] संस्कृत-वाङ्मय का बृहद् इतिहास, सप्तमखण्ड आधुनिक संस्कृत साहित्य का इतिहास, सम्पादकीय-(पृ.सं-34)

[3] केदारघाटी विधवा बभूव, श्लोकसंख्या-30, (पृ.सं-18)

[4] केदारघाटी विधवा बभूव, श्लोकसंख्या-31,(पृ.सं-18)

[5] परिवर्तनकाव्यम्, वानरराज्यशतकम्-(श्लोक संख्या-43), पृ.सं-11

[6] उत्तराखण्डमण्डनम्, (श्लोक संख्या-81)

[7] उत्तराखण्डमण्डनम्,(श्लोक संख्या-82)

[8] उत्तराखण्डमण्डनम्,(श्लोक संख्या-83)

 

 

नोट- उपर्युक्त शोध लेख ‘शब्दार्णव शोध पत्रिका’ के वर्ष-10,  अंक-20, भाग-5, जुलाई से दिसम्बर-2024 में प्रकाशित करवाया गया है जो कि सर्वाधिकार सुरक्षित है-

शोधलेख 

नाम-डॉ.मधुसूदन सती

दूरभाष सं-9068429661

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!