डॉ.बुद्धदेव शर्मा

डॉ.बुद्धदेव शर्मा

जन्मपरिचयः शिक्षा च-स्वरचनाकौशलेन  संस्कृत-जगति सुप्रसिद्धोऽयं कविः ‘डॉ.बुद्धदेवशर्मा’। कवेरस्य जन्म  जुलाई-मासस्य प्रथमे दिनाङ्के द्विपञ्चाशदुत्तर-नवदशतमे(01-07-1952) वर्षे उत्तरप्रदेशराज्यस्य ‘बरेली’ जनपदान्तर्गते ‘मीठी-नवादा’ नामाभिधेये ग्रामेऽभूत्। कवेरस्य पितुर्नाम ‘प्रियाशंकर शर्मा’ तथा मातुर्नाम ‘श्रीमती रामवती शर्मा’ च आसीत्। अस्य कवेः प्राथमिक-शिक्षा स्वकीये ग्राम एवाभवत्। तदनन्तरमुच्चशिक्षामर्जयितुमयं कविः ‘खुर्जा’ बुलन्दशहरम् अगच्छत्। ततः ‘साहित्याचार्य’ उपाधिमलभत। एतदतिरिच्यानेन कविना अन्येऽपि उपाधयः विभिन्न-विश्वविद्यालयेभ्यः सम्प्राप्ताः, तद्यथा- एम.ए.संस्कृतम्, शिक्षाशास्त्री, एल.एल.बी. इत्यादयश्च। ‘पी.एच.डी’ उपाधिः अनेन हरिद्वारस्थाद् ‘गुरुकुल-कांगड़ी-विश्वविद्यालयात्’ सम्प्राप्तः।

व्यावसायिकरूपेणायं कविः विभिन्नशैक्षणिक-संस्थासु कार्यमकरोत्, तद्यथा-

  • श्री दुग्धेश्वर-संस्कृत-महाविद्यालयः, पीलीभीतः, उत्तरप्रदेशः
  • मंगलादेवी-इण्टर-कॉलेज-देहरादूनम्,(प्रधानाचार्य-पदम्)
  • उत्तराखण्ड-संस्कृत-अकादमी, हरिद्वारम्,( सचिव-पदे)

        उत्तराखण्ड-संस्कृत-अकादम्यां कतिचन वर्षाणि यावत् कार्यं कृत्वा सेवानिवृत्तोऽयं कविः  संस्कृतभारतीसङ्घटने संस्कृत-

        सेवामपि अकरोत्।

  कृतित्वम्-

  • प्रकाशितम्-आत्माभिव्यक्तिः(मौलिककृतिः),
  • अप्रकाशितम्-इन्दिराशतकम्(इन्दिरागान्धिमहोदयायाः चरित्रम्)।
  • संस्कृतभाषायाम् अनूदिता ग्रन्थाः-अग्रे ततोऽप्यग्रे ,नन्दाराजयातम्, प्रेमचन्दकथाषडविंशतिका (प्रथमभागः द्वितीयः भागः)
  • सम्पादिताः ग्रन्थाः-आन्वीक्षिकी पत्रिका, परित्यक्ता अवस्थितिः, मानदण्डः, समुपस्थिताः प्रश्नाः, आमृद्यामाना      

       मर्यादा, तीर्थराजवसुन्दरा, वाक्-समाचारपत्रम्।

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!